यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने
योन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम्
नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः
यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः
ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वसंश्रयः
सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने
अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः । ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान्
एवं सञ्चिन्तयन् विष्णुमभोदेनात्मनो द्रिज । त्मयत्वमवाप्याग्रय मेने चात्मानमच्युतम्
विसस्मार तथात्मानं नान्यत् किञ्चिदजानत । अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत्
तस्य तदभावनायोगात् क्षीणापापस्य वे क्रमात् । शुद्ध ऽन्तः करणो विष्णुस्तस्थौ ज्ञानमयेऽच्युतः
योगप्रभावात् प्रह्लादि जाते विष्णुमयेऽसुरे । चलत्युरगबन्धैस्तैर्म्मैत्रय त्रटितं क्षणात्
भ्रान्तग्राहगणः सोर्म्मर्ययौ क्षोभ महार्णवः । चचाल च मही सर्वा सशौलवनकानना
स च तं शेलमम्पातं दैत्यैर्न्यस्तमथोपरि । प्रक्षिप्य तस्मात् सलिलान्निश्चक्राम महामतिः
दृष्ट्वा च स जगदू भूयो गगनाद्यु पलक्षणम् । प्रह्लदोऽस्मीति सस्मार पुनरात्मानमात्मना
तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्कायमानसः
ऊँ नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश निरंञ्जन
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थिर । मूर्त्तामूर्त्त महामूर्त्ते सूक्ष्ममूर्त्ते स्फुटास्फुट
करालसौम्यरूपात्मन् विद्याविद्यालयाच्युत । सदसद्रूप सद्भाव सदसद्भावभावन
नित्यानित्यप्रपञ्जात्मन् निष्प्रपञ्चामालश्रित । एकानिक नमस्तुभ्यं वासुदेवादिकारण
यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यःसर्व्भूतो न च सर्व्वभूतः । विश्वं यतश्चैतदविश्वहेतो र्नमोऽस्तु तस्मै पुरुषोत्तमाय
तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकूर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः
ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोऽस्तु विष्णवेत्यतद व्याजहारासकृद द्रिज
देव प्रपन्नार्त्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्यत
कुर्व्वतस्ते प्रसन्नोऽहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः
नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि
या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे ह्टदयान्माऽपसर्पतु
मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः
मयि द्र षानुबन्धोऽभूत् संस्तूतावुद्यते तव । मतूपितुस्तत्कृतं पापं देव तस्य प्रणश्यतु
शस्त्राणि पातितान्यङ्ग क्षिप्तो यज्वाग्रिसंहतौ । दंशितश्चोरगैर्दृत्तं यद्रिषं मम भोजने
बद्ध्वा समुद्र यत् क्षिप्तो यज्वितोऽस्मि शलोच्चयाः । अन्यानि चाप्यसाधूनि यानि यानि कृतानि मे