श्रीपराशर उवाच । एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् 1.19.
उवाच च स कोपेन सामर्षः प्रज्वलन्निव । निष्पिष्य पाणिना पाणिं हन्तुकामो जगद्यथा
हिरण्यकशिपुरुवाच । हे विप्रचित्ते हे राहो हे बलैष महार्णवे । नागपाशैर्दृढैर्बद्धा क्षिप्यतां मा विलंब्यताम्
अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः
बहुशो वारि तोस्माभिरयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः
पराशर उवाच। ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे
ततश्चचाल चलता प्रह्लादेन महार्णवः । उद्वेलोभूत्परं क्षोभमुपेत्य च समन्ततः
भूर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह महामते
हिरण्यकशिपुरुवाच। दैतेयाः सकलैः शैलैरत्रैव वरुणालये । निश्छिद्रै ः! सर्वशः सर्वैश्चीयतामेष दुर्मतिः
नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया
न मायाभिर्न चैवोच्चात्पातितो न च दिग्गजैः । बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता
तदेष तोयमध्ये तु समाक्रान्तो महीधरैः । तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः
ततो दैत्यादानवाश्च पर्वतैस्तं महोदधौः । आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः
स चितः पर्वतैरन्तः समुद्र स्य महामतिः । तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम्
प्रह्लाद उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमोनमः
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्र रूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये
देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा
पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः । भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः
रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत
विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान्
समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत्
मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च । तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो
त्वां योगिनश्चिंतयन्ति त्वां यजंति च याजकाः । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्
रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम्
तस्माच्च सूक्ष्मादिविश्षोणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय
सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर
यातीतगोचरा वाचां मनसां चाविश्षोणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम्
ॐ नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते