कथं मंत्रिष्वमात्येषु बाह्येष्वाभ्यंतरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च
कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम्
एतच्चान्यच्च सकलमधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम्
श्रीपराशर उवाच । प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृतांजलिपुटस्तथा
प्रह्लाद उवाच । ममो पदिष्टं सकलं गुरुणा नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतम्मम
साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादिनां च साधने
तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम्
सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः
त्वय्यस्ति भगवातन् विष्णुर्मयि चान्यत्र चास्ति सः । यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्कुतः
तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने
विद्याबुद्धिरविद्यायामज्ञानान्तात जायते । बालोग्निं किं न खद्योतमसुरेश्व मन्यते
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्
तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते
न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः
सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः
जडानामविवेकानामशूराणमपि प्रभो । भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि
तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम्
एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्र ष्टव्यमात्मवद्विष्णुर्यतोयं विश्वरूपधृक्
एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः
श्रीपराशर उवाच । एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् 1.19.
उवाच च स कोपेन सामर्षः प्रज्वलन्निव । निष्पिष्य पाणिना पाणिं हन्तुकामो जगद्यथा
हिरण्यकशिपुरुवाच । हे विप्रचित्ते हे राहो हे बलैष महार्णवे । नागपाशैर्दृढैर्बद्धा क्षिप्यतां मा विलंब्यताम्
अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः
बहुशो वारि तोस्माभिरयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः
पराशर उवाच। ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे
ततश्चचाल चलता प्रह्लादेन महार्णवः । उद्वेलोभूत्परं क्षोभमुपेत्य च समन्ततः
भूर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह महामते
हिरण्यकशिपुरुवाच। दैतेयाः सकलैः शैलैरत्रैव वरुणालये । निश्छिद्रै ः! सर्वशः सर्वैश्चीयतामेष दुर्मतिः
नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया