श्रीपराशर उवाच । इति श्रुत्वा स दैत्येन्द्र ः! प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान्
हिरण्यकशिपुरुपाच । दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः
ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः । पपात सोप्यधः क्षिप्तो हृदयेनोद्वहह्नरिम्
पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनमुपसंगम्य मेदिनी
ततो विलोक्य तं स्वस्थमविशिर्णास्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम्
हिरण्यकशिपुरुपाच । नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय
शम्बर उवाच। सूदयाम्येव दैत्येन्द्र पश्य मायाबलं मम । सहस्रमत्र मायानां पश्य कोटिशतं तथा
श्रीपराशर उवाच । ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि
समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः । मैत्रेय सोपि प्रह्लादः सस्मार मधुसूदनम्
श्रीपराशर उवाच। ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्
तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं चारिशोधितम्
संशोषकं तथा वायुं दैत्येन्द्र स्त्विदमब्रवीत् । शीघ्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम्
तथेत्युक्त्वा तु सोप्येनं विवेश पवनो लघु । शीतोतिरूक्षः शोषाय तद्देहस्यातिदुः सहः
तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम्
हृदयस्थस्ततस्तस्य तं वायुमतिभीषणम् । पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम्
क्षीणासुत सर्वमायासु पवने च क्षयं गते । जगाम सोपि भवनं गुरोरेव महामतिः
अहन्यहन्यथापाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं बालं राज्ञामुसनसा कृताम्
गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तत्पित्रे कथयामास शिक्षितम्
आचार्य उवाच। गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम्
हिरण्यकशिपुरुवाच । मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत्
कथं मंत्रिष्वमात्येषु बाह्येष्वाभ्यंतरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च
कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम्
एतच्चान्यच्च सकलमधीतं भवता यथा । तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम्
श्रीपराशर उवाच । प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृतांजलिपुटस्तथा
प्रह्लाद उवाच । ममो पदिष्टं सकलं गुरुणा नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतम्मम
साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादिनां च साधने
तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम्
सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः
त्वय्यस्ति भगवातन् विष्णुर्मयि चान्यत्र चास्ति सः । यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्कुतः
तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने