यत्रानपायी भगवान् ह्टद्यास्ते हरिरीख्वरः । भङ्गो भवति वजूस्य तत्र शूलस्य का कथा
अपाये तत्र पापैश्च पातिता तत्र याजकैः । तानेव सा जद्यानाशु कृत्या नाशं जगाम ष
कृत्यया दह्ममानांस्तान् विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत
सर्व्वव्यापिन् जगद्रपू जगतूस्त्रर्जनार्दन । पाहि विप्रानिमानस्मादू दुःसहान्मन्त्रपावकात्
यथा सर्व्वेषुभूतेषु सर्व्वव्यापी जगदूगुरुः । विष्णुरेव तथा सर्व्वे जीवन्त्वेते पुरोहिताः
यथा सर्व्वगतं विष्णुं मन्यमानो न पावकम् । चिन्तयाम्यरिपक्षेऽपि जीवन्त्वेते पुरोहिताः
ये हन्तुमागता दत्तं यैर्विषं यैर्हु ताशनः । यैर्द्दिगूगजैरहं क्षुणणो दष्टः सर्पैश्व यैरपि
तेष्वहं मित्रभावेन समः पापोऽस्मि न ववचित् । तथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः
इत्युक्तास्तेन ते सर्व्वै संस्पृष्टाश्व निरामयाः । समुत्तस्थुर्द्रिजा भूयस्तञ्चोचुः प्रश्वयान्वितम्
दीर्घायुरप्रतिहत-बलवीर्य्यसमन्वितः । पुत्र-पौत्र-धनैश्वर्य्ययुक्तो वत्स ! भवोत्तम
इत्युत्तवा तं ततो गत्वा यथावृत्तं परोहिताः । दैत्यराजाय सकलमाचचक्षु र्महामुने
श्रीपराशर उवाच हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम्
हिरण्यकशिपुरुवाच । प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम् । एतन्मंत्रादिजनितमुताहो सहजं तव
श्रीपराशर उवचा। एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत्
न मंत्रादिकृतं तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि
अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते
कर्मणा मनसा वाचा परिपीडां करोति यः । तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम्
सोहं न पापमिच्छामि न करोमि वदामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम्
शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः
एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम्
श्रीपराशर उवाच । इति श्रुत्वा स दैत्येन्द्र ः! प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान्
हिरण्यकशिपुरुपाच । दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः
ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः । पपात सोप्यधः क्षिप्तो हृदयेनोद्वहह्नरिम्
पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनमुपसंगम्य मेदिनी
ततो विलोक्य तं स्वस्थमविशिर्णास्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम्
हिरण्यकशिपुरुपाच । नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय
शम्बर उवाच। सूदयाम्येव दैत्येन्द्र पश्य मायाबलं मम । सहस्रमत्र मायानां पश्य कोटिशतं तथा
श्रीपराशर उवाच । ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि
समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः । मैत्रेय सोपि प्रह्लादः सस्मार मधुसूदनम्
श्रीपराशर उवाच। ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम्