हालाहलं विषं तस्य सर्व्वभक्ष्येषु दीयताम् । अविज्ञातमसौपापो हन्यतां मा विचार्य्यताम्
ते तथैव ततश्वक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः
हालाहलं विषं घोरमनन्तोज्वरणोन सः । अभिमन्व्य सहान्नेन मैत्रेय बुभुजे तदा
अविकारं स तदू भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तक्यातिनिर्वीर्य्य जरयामास तदूविषम्
ततस्तदा भयत्रस्ता जीर्णं दृष्ट्वा महद्रिषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रु वन्
दैत्यराज ! विष दत्तमस्माभिरतिभीषणम् । जीर्णां तेन सहान्नेन प्रह्लादेन सुतेन ते
त्वर्य्यतां त्वर्य्यां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय उत्पादयत मा चिरात्
सकाशमागम्य ततः पह्लादं विनयान्वितम्
जातस्त्रैलोक्यर्विख्यात् आयुष्मन् ! ब्रह्मणः कुले । दैत्यराजस्य तनयो हिरणयकशिपोर्भवान्
किं देवैः किमनन्तेन किमन्येन तवाश्वयः । पिता ते सर्व्वलोकानां त्वं तथैव भविष्यसि
तस्मात् परित्यजैनां त्वं विपक्षस्तवसंहिताम् । बाचं पिता समास्तानां गुरूणां परमो गुरुः
एवपमेतन्महाभागाः । श्लाच्यमेतन्महाकुलम् । मरीचेः सकलेऽप्यस्मिन् त्रैलोक्ये कोऽन्यथा वदेत्
पिता च मम सर्व्वस्मिन् जगत्युत्कृष्टचेष्टतः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम्
गुरूणामपि सर्व्वषां पिता परमको गुरुः । यदुक्तं भ्रान्तिरत्रापि स्वल्पापि हि न विद्यते
पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम्
यदेतत् किमनन्तेनेत्युक्तं युष्माबिरीदृशम् । को ब्रबीति यथायुक्तं किन्तु नैतद् वचोऽर्थवत्
इत्युक्त्वा सोऽभवन्मौनी तैषां गौखयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति
साधु भोः किमनन्तेन साधु बो गुखो मम । श्वूयतां यदनन्तेन यदि खेदं न यास्यथ
धर्म्मार्थकाममोक्षाख्याः पुरुषार्था उदाह्टताः । चतुष्टयमिदं यस्मात् तस्मात् किं किमिदं वृथा
. मरीचिमिश्रैर्दक्षण तथैवान्यैरनन्ततः । धर्म्मः प्राप्तस्तथैवान्यैरर्थः कालस्तथापरैः
तत्तत्त्ववेदिनो भूत्त्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः
सम्पदैश्वर्य्यमाहात्म्यज्ञानसन्ततिकर्म्मणाम् । विमुक्तेश्चैकतालब्यं मूलमाराधनं हरेः
यतो धर्म्मार्थकामाख्यं मुक्तिश्वापि फलं द्रिजाः । तेनापि हि किमेत्येवमनन्तेनं किमुच्चते
किञ्चात्र बहनोक्तेन भवन्तो गरवो मम । वदन्तु साधु वाऽसाधु विवेकोऽस्माकमाल्पकः
दह्ममानस्त्वसस्मभिरग्रिना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान्
यदास्मदूवचनान्मोहग्राहं न त्यक्ष्यते भवान् । ततः कृत्यां विनाशाय तव स्त्रक्ष्याम दुर्म्मतेः
कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्मसत् साधु सामाचरन्
इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्बलाकृतिम्
अतिभीमा समागम्य पादन्यासक्षति) । शूलेन सा सुसंक्रु द्धा तं जघानाशु वक्षसि
. ततू तस्य ह्टदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खणिडतं भूमौ तत्रापि शतधा गतम्