विस्तारः सर्व्वभूतस्य विष्णोर्विश्वमिदं जगत् । द्रष्टव्यमात्मवत् तस्मादभेदेन विचक्षणौः
समुत्सृज्यासुरं भावं तस्मादे यूयं तथा वयम् । तथा यत्ना करिष्यामोयथाप्राप्स्याम निर्वृतिम्
या नाग्निना न वार्केण नेन्दुना नैव वायुना । पर्ज्जन्यवरुणाभ्यां वा न सिद्धर्न च राक्षसेः
न यक्षैर्न च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवेः
ज्वराक्षिरोगाऽतीसारःप्लीह-गुल्मादिकैस्तथा । दूषेर्ष्यामतूसराद्यैर्वा रागलोभादिभिः क्षयम्
न चान्यैर्नीयते कैश्विन्नित्या ह्मत्यन्तनिर्म्मला । तामाप्नोति मलं त्यक्ता केशवे ह्टदि संस्थिते
असारससारविवर्त्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्व्वत्र दैत्याः समतामुपेत समत्वमाराधनमच्युतस्य
तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्म्मर्थकामैरलमल्पकास्ते । समाश्वितादू ब्रह्मतरोरनन्तान्निसं शयं प्राप्स्यथ वै महत् फलम्
तस्येवं दानबाशचेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचक्षुः स चोवाच सूदानाहूय सत्वरः
हे सूदा मम पुत्रोऽसावन्येषामपि दुर्म्मतिः । कुमार्गदेशको दुष्टो हन्यतामविलम्बितम्
हालाहलं विषं तस्य सर्व्वभक्ष्येषु दीयताम् । अविज्ञातमसौपापो हन्यतां मा विचार्य्यताम्
ते तथैव ततश्वक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः
हालाहलं विषं घोरमनन्तोज्वरणोन सः । अभिमन्व्य सहान्नेन मैत्रेय बुभुजे तदा
अविकारं स तदू भुक्त्वा प्रह्लादः स्वस्थमानसः । अनन्तक्यातिनिर्वीर्य्य जरयामास तदूविषम्
ततस्तदा भयत्रस्ता जीर्णं दृष्ट्वा महद्रिषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रु वन्
दैत्यराज ! विष दत्तमस्माभिरतिभीषणम् । जीर्णां तेन सहान्नेन प्रह्लादेन सुतेन ते
त्वर्य्यतां त्वर्य्यां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय उत्पादयत मा चिरात्
सकाशमागम्य ततः पह्लादं विनयान्वितम्
जातस्त्रैलोक्यर्विख्यात् आयुष्मन् ! ब्रह्मणः कुले । दैत्यराजस्य तनयो हिरणयकशिपोर्भवान्
किं देवैः किमनन्तेन किमन्येन तवाश्वयः । पिता ते सर्व्वलोकानां त्वं तथैव भविष्यसि
तस्मात् परित्यजैनां त्वं विपक्षस्तवसंहिताम् । बाचं पिता समास्तानां गुरूणां परमो गुरुः
एवपमेतन्महाभागाः । श्लाच्यमेतन्महाकुलम् । मरीचेः सकलेऽप्यस्मिन् त्रैलोक्ये कोऽन्यथा वदेत्
पिता च मम सर्व्वस्मिन् जगत्युत्कृष्टचेष्टतः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम्
गुरूणामपि सर्व्वषां पिता परमको गुरुः । यदुक्तं भ्रान्तिरत्रापि स्वल्पापि हि न विद्यते
पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम्
यदेतत् किमनन्तेनेत्युक्तं युष्माबिरीदृशम् । को ब्रबीति यथायुक्तं किन्तु नैतद् वचोऽर्थवत्
इत्युक्त्वा सोऽभवन्मौनी तैषां गौखयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति
साधु भोः किमनन्तेन साधु बो गुखो मम । श्वूयतां यदनन्तेन यदि खेदं न यास्यथ
धर्म्मार्थकाममोक्षाख्याः पुरुषार्था उदाह्टताः । चतुष्टयमिदं यस्मात् तस्मात् किं किमिदं वृथा
. मरीचिमिश्रैर्दक्षण तथैवान्यैरनन्ततः । धर्म्मः प्राप्तस्तथैवान्यैरर्थः कालस्तथापरैः