मांसाऽसृकूपूयविणूमूत्रस्नायुमज्जाऽस्थिसंहतौ । देहे चेत् प्रीतिमान् मूढ़ो नरके भवितापि सः
अग्नेः शीतेन तोयस्य तषा भक्तस्य च क्षुधा । क्रियते सुखकर्त्तृ त्वं तदू विलोमस्य चेतदरैः
करोति हे दैत्यसुता ! यावन्मात्रं परिग्रहम् । तावन्मात्रं, स एवास्य दुः स्वं चेतसि यच्छति
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते ह्टदये शोकशङ्गवः
यदू यदू गृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशदाहापहरणां तत्र तस्यैव तिष्ठति
जन्मन्यत्र महदू दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्र गर्भसंक्रमणेषु च ।.
गर्भै च सुखलेशोऽपि भवद्भिरनुमीयते । यदि तत् कथ्यतामेवं सर्वं दुः खमयं जगत्
तदेवमतिदुः खानामास्पदेऽत्र भवार्णावे । बवतां कथ्यते सत्यं विष्णुरेकः परायणम्
मा जानीत वयं बाला देही देहेषु शाशवतः । जरा-यौवन-जन्माद्या धर्म्मा देहस्य नात्मनः
बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्द्धके प्राप्त करिष्याम्यात्मनो हितम्
वृद्धोऽहं मम कर्म्माणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत् कृतम्
एवं दुराशायक्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कदाचित् पिपसितः
बाल्ये क्रीड़नकासक्ता यौवने विषयोन्मुखाः । अज्ञा नयन्त्यशत्तया च वार्द्ध कं समुपस्थितम्
तस्माद् बाल्ये विवेकात्मा यतेत श्रेयस् सदा । बाल्य-यौवन-वृद्धाद्यर्दैहभावैरसंयुतः
तदेतदू वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णाः स्मर्य्यतां बन्धमुक्तिदः
आयासः स्मरणो कोऽस्य स्मृतो यच्छति शोभनम् पापक्षयश्च भवति स्मरतां तमपनिंशम्
सर्व्वभूतस्थिते तस्मिन् मतिर्मैत्री दिवानिशम् । बवतां जायतामेवं सर्वक्ल शोन् प्रहास्यथ
तापत्रयेणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्रे षं प्राज्ञः करोति कः ।। ८० अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तथापि कुर्व्वीत् हानिर्द्रेषफलं यतः
बद्धवैराणि भूतानि द्र षं कुर्व्वन्ति चेत् ततः । शोच्यान्यहोऽतिमोहेन व्याप्तानीति मनीषिणा
एते बिन्नदृशा दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संक्षेपः श्वूयतां मम
विस्तारः सर्व्वभूतस्य विष्णोर्विश्वमिदं जगत् । द्रष्टव्यमात्मवत् तस्मादभेदेन विचक्षणौः
समुत्सृज्यासुरं भावं तस्मादे यूयं तथा वयम् । तथा यत्ना करिष्यामोयथाप्राप्स्याम निर्वृतिम्
या नाग्निना न वार्केण नेन्दुना नैव वायुना । पर्ज्जन्यवरुणाभ्यां वा न सिद्धर्न च राक्षसेः
न यक्षैर्न च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवेः
ज्वराक्षिरोगाऽतीसारःप्लीह-गुल्मादिकैस्तथा । दूषेर्ष्यामतूसराद्यैर्वा रागलोभादिभिः क्षयम्
न चान्यैर्नीयते कैश्विन्नित्या ह्मत्यन्तनिर्म्मला । तामाप्नोति मलं त्यक्ता केशवे ह्टदि संस्थिते
असारससारविवर्त्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्व्वत्र दैत्याः समतामुपेत समत्वमाराधनमच्युतस्य
तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्म्मर्थकामैरलमल्पकास्ते । समाश्वितादू ब्रह्मतरोरनन्तान्निसं शयं प्राप्स्यथ वै महत् फलम्
तस्येवं दानबाशचेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचक्षुः स चोवाच सूदानाहूय सत्वरः
हे सूदा मम पुत्रोऽसावन्येषामपि दुर्म्मतिः । कुमार्गदेशको दुष्टो हन्यतामविलम्बितम्