ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठ विषाणैरवपीड़ितः
स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्त्रशः । शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः
दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेते न बलं ममैतत् । महाविपत्पापविनाशनोऽयं जनार्दनानुस्मरणानुभावः
ज्वाल्यतामसुरा ! वह्निरपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्मतामेष पापकृत् महाकाष्ठच्छन्नमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्नि ददहुः खामिनोदिताः
तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् । पश्यामि पह्मास्तरणास्तृतानि शीतानि सर्व्वाणि दिशां मुखानि
अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजाद्रिजाः । पुरोहिता महात्मानः साचम्ना संस्तूय वाग्मिनः
राजन् ! नियम्यतां कोपो बालेऽत्र तनयेऽनुजे । कोपो देवनिकायेषु यत्र ते सफलो यतः
तथा तथैनं बालं ते शासितारो भविष्यति
बालत्वं सर्व्वदोषाणां दैत्यराजास्पदं यतः । ततोऽत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके
न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद् यदि । ततः कृत्यां वधायास्य करिष्यामो निवर्त्तिनीम्
एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैर्निष्काशयामास पुत्रं पावकसञ्चयात्
तो गुरुगृहे बालः सवसन् बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः
श्वूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम्
जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जरा
ततश्यच मृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा
मृतस्य च पुनर्जन्म भवत्येतज्व नान्यथा । आगमोऽयं तथा तत्र नोपादानं विनोद्भवः
गर्भवासादि यावत् तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावदू दुः खमेवावगम्यताम्
क्षुतूतृषअमोपशमं तदूच्छीताद्यु पशमं सुखम् । मन्यते बालबुद्धित्वादू दुः खमेव हि तत् पुनः
अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सूखायते
क शरीरमशेषाणां श्लैष्मादीनां महाचयः । क कान्ति-शोभा-शौरभ्य-कमनीयादयो गुणाः
मांसाऽसृकूपूयविणूमूत्रस्नायुमज्जाऽस्थिसंहतौ । देहे चेत् प्रीतिमान् मूढ़ो नरके भवितापि सः
अग्नेः शीतेन तोयस्य तषा भक्तस्य च क्षुधा । क्रियते सुखकर्त्तृ त्वं तदू विलोमस्य चेतदरैः
करोति हे दैत्यसुता ! यावन्मात्रं परिग्रहम् । तावन्मात्रं, स एवास्य दुः स्वं चेतसि यच्छति
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते ह्टदये शोकशङ्गवः
यदू यदू गृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशदाहापहरणां तत्र तस्यैव तिष्ठति
जन्मन्यत्र महदू दुःखं म्रियमाणस्य चापि तत् । यातनासु यमस्योग्र गर्भसंक्रमणेषु च ।.
गर्भै च सुखलेशोऽपि भवद्भिरनुमीयते । यदि तत् कथ्यतामेवं सर्वं दुः खमयं जगत्
तदेवमतिदुः खानामास्पदेऽत्र भवार्णावे । बवतां कथ्यते सत्यं विष्णुरेकः परायणम्
मा जानीत वयं बाला देही देहेषु शाशवतः । जरा-यौवन-जन्माद्या धर्म्मा देहस्य नात्मनः
बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्द्धके प्राप्त करिष्याम्यात्मनो हितम्