इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्त्रशः
विष्णूः शस्त्रेषु युष्माकं मयि चासौ यथा स्थितः । दैतेयास्तेन सत्येन मा क्रामन्त्वायुधानि मे
ततस्तैः शतशो धैत्यैः सस्त्रौघैराहतोऽपि सन् । नावाप वेदनामल्पामभूज्व वै पुनर्नवः
दुर्बुद्ध ! विनिवर्त्तस्व वैरिपक्षस्तवादतः । अभयं ते प्रयच्छामि मातिमूढ़मतिर्भव
भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन् स्मते जन्मजरान्तकादिभयानि सर्व्वाणयपयान्ति तात
भोभोः सर्पा ! दुराचारमेनमत्यन्तदुर्मतिम् । विषज्वालाकुलैर्व्वक्तूः सद्यो नयत संक्षयम्
इत्युक्तास्तेन ते सर्पाः कुहकास्तक्षकान्धकाः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्वणाः
स त्वासक्तमतिः कृष्णो दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः
दंष्ट्रा विशीर्णा मणयः स्फुटन्ति फणेषु तापो हृदयेषु कम्पः । नास्य त्वचः स्वल्पमपीह भिन्न प्रशाधि दैत्येश्वर कार्य्यमन्यत्
हे दिग्गजाः ! सङ्कटदन्तमिशाव ! ध्नतैनमस्मद्रिपुपक्षभिन्नम् । तज्जा विनाशाय भवन्ति तस्य यथारणोः प्रज्वलितो हुताशाः
ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठ विषाणैरवपीड़ितः
स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्त्रशः । शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः
दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदेते न बलं ममैतत् । महाविपत्पापविनाशनोऽयं जनार्दनानुस्मरणानुभावः
ज्वाल्यतामसुरा ! वह्निरपसर्पत दिग्गजाः । वायो समेधयाग्निं त्वं दह्मतामेष पापकृत् महाकाष्ठच्छन्नमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्नि ददहुः खामिनोदिताः
तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् । पश्यामि पह्मास्तरणास्तृतानि शीतानि सर्व्वाणि दिशां मुखानि
अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजाद्रिजाः । पुरोहिता महात्मानः साचम्ना संस्तूय वाग्मिनः
राजन् ! नियम्यतां कोपो बालेऽत्र तनयेऽनुजे । कोपो देवनिकायेषु यत्र ते सफलो यतः
तथा तथैनं बालं ते शासितारो भविष्यति
बालत्वं सर्व्वदोषाणां दैत्यराजास्पदं यतः । ततोऽत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके
न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद् यदि । ततः कृत्यां वधायास्य करिष्यामो निवर्त्तिनीम्
एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैर्निष्काशयामास पुत्रं पावकसञ्चयात्
तो गुरुगृहे बालः सवसन् बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः
श्वूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम्
जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जरा
ततश्यच मृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा
मृतस्य च पुनर्जन्म भवत्येतज्व नान्यथा । आगमोऽयं तथा तत्र नोपादानं विनोद्भवः
गर्भवासादि यावत् तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावदू दुः खमेवावगम्यताम्
क्षुतूतृषअमोपशमं तदूच्छीताद्यु पशमं सुखम् । मन्यते बालबुद्धित्वादू दुः खमेव हि तत् पुनः
अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सूखायते
क शरीरमशेषाणां श्लैष्मादीनां महाचयः । क कान्ति-शोभा-शौरभ्य-कमनीयादयो गुणाः