दितेः पुत्रो महावीर्य्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः
इन्दत्वमकरोदू दैत्यः स चासीत् सविता स्वयम् । वायुरग्रिरपां नाथः सोमस्चाभूनूमहासुरः
धनानामधिपः सोऽभूत् स एवासीत् खयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः
देवाः सर्गं परित्यज्य ततूत्रासान्मुनिसत्तम । विचेरुरवनौ सर्वं बिब्राणा मानुषीं तनुम्
जिताव त्रिभुव्रनं सर्व्वं त्रैलोक्यैश्वर्य्यदर्पितः । उपगीयामानो गन्धर्वैर्बुभुजे विषयान् प्रियान्
पानासक्तं महात्मानं हिरणंयकशिपु तदा । उपासाञ्चकिरे सर्व्वै सिद्धगन्धर्वपन्नगाः
अवादयञ्जगुश्चान्ये जयशब्दानथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदन्विताः
तत्र प्रनृत्याप्सरसि स्फटिकाभ्रमयेऽमुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठयानि गुरुगेहे गतोऽर्भकः
एकदा तुस धर्म्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा
पादप्रणामावनतं तमुत्थाप्य पिता सुतम् । हिरण्यकशिपुः प्राह प्रह्लादममितोजसम्
पठयतां भवता वत्स ! सारभूतं सुभाषितम् । कालेनैतावता यत् ते सदोद्यु क्तने शिक्षितम्
श्वूयतां तात ! वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम्
अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणातोऽस्मि महात्मानं सर्व्वकारणकारणम्
एवं निशम्य दैन्येन्द्रः क्रोधसंरक्तलोचनः । विलोक्य तदूगुरुं प्राह स्फुरिताधरपल्लवः
ब्रह्मबन्धो ! किमेतत् ते विपक्षस्तुतिसहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते !
दैत्येश्वर ! न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितं नायं वदति ते सुतः
अनुशास्तोसि केनेदृगु वत्स ! प्रह्लाद कथ्यताम् । ममोपदिष्ट नेत्येष प्रब्रवीति गुरुस्तव
शास्ता विष्णुरशेषस्य जगतो यो ह्टदि स्थितः । तमृते परमात्मानं तात ! कः केन शास्यते
कोऽय विष्णुः सुदुर्बुद्ध ! यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभं मम
न शह्दगोचरे यस्य योगिध्येयं परं पदम् । यतो यश्व स्वयं विश्वं स विष्णुः परमेश्वरः
परमेश्वरसंज्ञोऽज्ञ ! किमन्यो मययवस्थिते । तवास्ति मर्त्तुकामस्त्व प्रब्रवीषि पुनः पुनः
न केवलं तात ! मम प्रजानां स ब्रह्मभूतो भवतश्व विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम
प्रविचष्टः कोऽस्य ह्टदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः
न केवलं मदूह्टदयं स विष्णु--राक्रम्य लोकान् सकलानवस्थितः । स मां त्वदादींश्च पितः ! समस्तान् समस्तचेष्टासु युनक्ति सर्वगः
निष्काम्यतामयं दुष्टः शास्यताञ्च गुरोगृ हे । योजितो दुर्म्मतिः केन विपक्षवितथस्तुतौ
इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहं पुनः । जग्राह विद्यामनिशं गुरुशुश्वू षणोद्यतः
कालेऽतीते च महति प्रह्लादमसुरेश्वरः । समाहूयाब्रवीत् पुत्र ! गाध काचित् प्रगीयताम्
यतः प्रधानपुरुषौ यतश्चैतज्वराचरम् । कारणां सकलस्यास्य स नो विष्णुः प्रसीदतु
दुरात्मा वध्यतामेष ननिनार्थोऽस्ति जीवता । खपक्षहानिकर्त्तृ त्वाद यः कुलाङ्गारतां गतः