यद्गुणं यत्स्वभावं च यद्रू पं च जगद्द्विज। सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्नशः
श्रीपराशर उवाच मैत्रेय कथयाम्येतच्छृणुष्व सुसमाहितः । यथा ससर्ज देवोसौ देवादीनखिलान्विभुः
सृष्टिं चिंतय तस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः
तमोमोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः । अविद्या पंचपर्वैषा प्रादुर्भूता महात्मनः
पञ्चधाऽवस्थितः सर्गो ध्यायतो प्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः
मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् ७ तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं पुनः
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोभ्यवर्त्तत । यस्मात्तिर्यक्प्रवृत्तिस्स तिर्यक्स्रोतास्ततः स्मृतः
पश्वादयस्ते विख्यातास्तमःप्राया ह्यवेदिनः । उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः
अहंकृता अहंमाना अष्टाविंशद्वधात्मकाः । अतः प्रकाशास्ते सर्वे आवृताश्च परस्परम्
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोऽभवत् । ऊर्ध्वस्रोतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्त्तत
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः
तुष्टात्मानस्तृतीयस्तु देवसर्गस्तु स स्मृतः । तस्मिन्सर्गेभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् . असाधकांस्तु ताञ्ज्ञात्वा मुख्यसर्गादिसम्भवान्
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः । प्रादुर्बभूव चाव्यक्तादर्वाक्स्रोतास्तु साधकः
यस्मादर्वाग्व्यवर्त्तन्त ततोर्वाक्स्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रि क्ता रजोधिकाः
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः । प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः
तन्मात्राणां द्वितीयश्च भूतसर्गो हि स स्मृतः । वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रि यकः स्मृतः
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः
तिर्यक्स्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते । तदूर्ध्वस्रोतसां षष्ठो देवसर्गस्तु संस्मृतः
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः । पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः । इत्येते वै समाख्याता नव सर्गाः प्रजापतेः
प्राकृता वैकृताश्चैव जगतो मूलहेतवः । सृजतो जगदीशस्य किमन्यच्छ्रोतुमिच्छसि
श्रीमैत्रेय उवाच संक्षेपात्कथितः सर्गो देवादीनां मुने त्वया । विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम
श्रीपराशर उवाच कर्मभिर्भाविताः पूर्वैः कुशलाः कुशलैस्तुताः । ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मंश्चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः
ततो देवासुरपितॄन्मनुष्यांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
युक्तात्मनस्तमोमात्रा ह्युद्रि क्ताऽभूत्प्रजापतेः । सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् । सा तु व्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी