दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज । न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ १,१५.
महार्णवान्तः सलिले स्थितस्य चलतो मही । चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ १,१५.
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः । शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १,१५.
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १,१५.
शैलैराक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ १,१५.
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १,१५.
यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १,१५.
विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १,१५.
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १,१५.
शम्बरस्य च मायानां सहस्रमतिमायिनः । यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ १,१५.
दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् । जरयामास मतिमानविकारममत्सरी ॥ १,१५.
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु । यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥ १,१५.
धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः । उपमानमशेषाणां साधूनां यः सदाभवत् ॥ १,१५.
मैत्रेय उवाच । कथितो भवता वंशो मानवानां महामुने । काणञ्चास्य जगतो विष्णुरेव सनातनः
यच्चैतदू भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नस्त्रैश्व क्षण्णस्तत्याज जीवितम्
जगाम वसुधा क्षोभं प्रह्लादे सलिले स्थिते । बन्धबद्ध विचलति विक्षिप्ताङू गैः समाहता
शैलैराक्रान्तदेहोऽपि न ममार च यः पुरा । त्वयैवातीव माहात्म्यां कथितं यस्य धीमतः
तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने । श्वोतुमिच्छामि यस्योतच्चरितं दीप्ततेजसः
किं निमित्तमसौ शस्त्रैर्विक्षतो दितिजैर्मुने । किममर्थञ्चाब्धिसलिले निक्षिप्ते धर्म्मतत्परः
आक्रान्तः पर्व्वतैः कस्मात् कस्मादृष्टो महोरगैः । क्षिप्तः किमद्रिशिखरात् किं वा पावकसञ्चये
दिग्दन्तिनां दन्तबूमिं स च कस्मान्नरूपितः । संशोषकोऽनिलश्चास्य प्रयुक्तः किं मुहासुरैः
कृत्याञ्च दैत्यगुरवो युयुजुस्तत्र किं मुने । शम्बरश्चापि मायानां सहस्त्रं कि प्रयुक्तवान्
हालाहलं विषमहो दैत्यसूदैर्महात्मनः । कस्माद् दत्त विनाशाय यद जीर्णा तेन धीमता
एतत् सर्व्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्वोतुमिच्छामि महामाहात्म्यसूचकम्
न हि कौतूहलं तत्र यदू दैत्यैर्न हतो हि सः । अनन्यमनसो विष्णौ कः शक्नोति निपातने
तस्मिन धर्म्मपरे नित्यं केशावरधानोद्य.ते । स्ववंशप्रभवैर्दैत्येः कर्त्तु द्रषोऽतिदुष्करः
दर्म्मात्मनि महाभागे विष्णुभक्ते विमत्सरे । दैतेयैः प्रह्टतं यस्मात् तन्ममाख्यातुमर्हसि
प्रहरन्ति महात्मानो विपक्षा अपि नेदृशे । गुणौः समन्विते साचधौ किं पुनयः खपक्षजः
तदेतत् कथ्यतां सर्व्व विस्तरान्मुनिसत्तम । दैत्येश्वरस्य चरितं श्वोतुमिच्छाम्यशेषतः
पाराशर उवाच । मैत्रेय श्वूयतां सम्यक् चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचीरितस्य महात्मनः