शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् । काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु । अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ १,१५.
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १,१५.
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ १,१५.
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥ १,१५.
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १,१५.
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ १,१५.
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १,१५.
विवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १,१५.
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १,१५.
सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः । सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः । तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ १,१५.
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १,१५.
बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ १,१५.
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ १,१५.
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ १,१५.
एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः । तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १,१५.
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह । एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ १,१५.
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ १,१५.
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १,१५.
हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः । अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् । संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ १,१५.
तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी । प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ १,१५.
दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज । न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ १,१५.
महार्णवान्तः सलिले स्थितस्य चलतो मही । चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ १,१५.
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः । शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ १,१५.
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः । नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ १,१५.
शैलैराक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् । तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ १,१५.
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् । दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ १,१५.
यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः । अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ १,१५.
विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः । यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ १,१५.
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः । बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ १,१५.
शम्बरस्य च मायानां सहस्रमतिमायिनः । यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ १,१५.