अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ १,१५.
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ १,१५.
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ १,१५.
प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ १,१५.
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत । प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ १,१५.
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः । कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ १,१५.
भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः । यः सर्वैषां विमानानि देवतानां चकार ह । मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ १,१५.
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् । त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ १,१५.
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । वृषाकपिश्च शम्भुश्च कपर्दीरैवतः स्मृतः ॥ १,१५.
मृगव्याधश्च शर्वश्च कपाली च महामुने । एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १,१५.
शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् । काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु । अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ १,१५.
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा । कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ १,१५.
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः । तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ १,१५.
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः । समवायीकृताः सर्वे समागम्य परस्परम् ॥ १,१५.
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै । मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ १,१५.
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ १,१५.
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि । अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ १,१५.
विवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ १,१५.
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ १,१५.
सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः । सर्वा नक्षत्रयोगिन्यस्तन्नाम्नश्चैव ताः स्मृताः । तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ १,१५.
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १,१५.
बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ १,१५.
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ १,१५.
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ १,१५.
एते युगसहस्रान्ते जायन्ते पुनरेव हि । सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः । तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ १,१५.
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह । एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ १,१५.
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् । हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ १,१५.
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ १,१५.
हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः । अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् । संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ १,१५.
तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी । प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ १,१५.