कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम । तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ १,१५.
मैत्रेय उवाच देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ १,१५.
श्रीपराशर उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । यथा ससर्ज भूतानि तथा शृणु महामुने ॥ १,१५.
मानसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा । देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ १,१५.
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ १,१५.
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः । सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ १,१५.
अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् । असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ १,१५.
तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः । संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ १,१५.
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ १,१५.
बालिश बत यूयं वै नास्या जानीत वै भुवः । अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ १,१५.
ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः । तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ १,१५.
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ १,१५.
हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः । वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ १,१५.
विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः । पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः ॥ १,१५.
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः । भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ १,१५.
ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजाःसृज्यामहे ततः ॥ १,१५.
तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् । अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः । ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १,१५.
तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ १,१५.
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः । षष्टिं तक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ १,१५.
ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १,१५.
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ १,१५.
अरुन्धती वसुर्जामिर्लङ्घा भानुमरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी । धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु । विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत । मरुत्वत्यां सरुत्वन्तो वसोश्च वसवः स्मृता ॥ १,१५.
भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥ १,१५.
लङ्घायाश्चैव घोषोथ नागवीथी तु जामिता ॥ १,१५.
पृथिवीविषयं सर्वमरुन्धत्याम जायत । संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ १,१५.
ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः । वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ १,१५.
आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ १,१५.
आपस्य पुत्रो वैतण्डः श्रमः शान्तोऽध्वनिस्तथा । ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ १,१५.
सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ १,१५.
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । मनोहरायां शिशिरः प्राणोथ रवणस्तथा ॥ १,१५.