भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ १,१५.
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता । अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ १,१५.
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ १,१५.
सोम उवाच तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ १,१५.
देव उवाच भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि । प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ १,१५.
पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् । प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ १,१५.
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति । त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ १,१५.
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता । मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ १,१५.
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् । सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ १,१५.
श्रीपराशर उवाच ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ १,१५.
दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः । जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ १,१५.
स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते । पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ १,१५.
अवरांश्च वरांश्चैव द्विपदोथ चतुष्पदान् । आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ १,१५.
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः । ददौ स दश धर्माय कश्यपाय त्रयोदश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ १,१५.
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः । गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ १,१५.
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः । तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥ १,१५.
श्रीमैत्रेय उवाच अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः । कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ १,१५.
एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते । यद्दैहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ १,१५.
श्रीराशर उवाच उत्पत्तिश्च निरोधश्च नित्यो भूतेषु सर्वाद । ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ १,१५.
युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम । पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ १,१५.
कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम । तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ १,१५.
मैत्रेय उवाच देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ १,१५.
श्रीपराशर उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । यथा ससर्ज भूतानि तथा शृणु महामुने ॥ १,१५.
मानसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा । देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ १,१५.
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ १,१५.
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः । सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ १,१५.
अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् । असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ १,१५.
तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः । संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ १,१५.
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ । ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ १,१५.
बालिश बत यूयं वै नास्या जानीत वै भुवः । अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ १,१५.