सोम उवाच यावदित्थं स विप्रर्षिस्तां ब्रवीति समुध्यमाम् । तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ १,१५.
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १,१५.
सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १,१५.
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै । वृक्षाद्धृक्षं ययौ बाला तदग्रारुणपल्लवैः ॥ १,१५.
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ १,१५.
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ १,१५.
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ १,१५.
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ १,१५.
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ १,१५.
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः । ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ १,१५.
प्रचेतस ऊचुः ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाराध्यत केशवः ॥ १,१५.
सोम उवाच पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी । सब्रह्पारः परपारभूतः परः पराणामपि पारपारः ॥ १,१५.
स कारणं कारणतस्ततोपि तस्यापि हेतुः । कार्येषु चैवं सह कर्मकर्तृरूपैरशेषैरवतीह सर्वम् ॥ १,१५.
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ । ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गि ॥ १,१५.
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः । तथा रागादयो दोषः प्रयान्तु प्रशमं मम ॥ १,१५.
सोम उवाच एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् । अवाप परमां सिद्धिं स तमाराध्य केशवम् ॥ १,१५.
इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः । कार्यगौरवमेतस्याः कथने फलदायि वः ॥ १,१५.
अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः । भीपपत्नी महाभागा तोषयामास भक्तितः ॥ १,१५.
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः । वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ १,१५.
भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी । मन्दभाग्या समुद्भुता विफला च जगत्पते ॥ १,१५.
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि । त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ १,१५.
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता । अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ १,१५.
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना । अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ १,१५.
सोम उवाच तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् । प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ १,१५.
देव उवाच भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि । प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ १,१५.
पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् । प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ १,१५.
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति । त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ १,१५.
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता । मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ १,१५.
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् । सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ १,१५.
श्रीपराशर उवाच ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ १,१५.