एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः । निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ १,१५.
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे । सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत् ॥ १,१५.
ततः प्रहस्य सुददी तं सा प्राह महामुनिम् । किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ १,१५.
बहूनां विप्र वर्षाणां परिवृत्तम हस्तव । गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ १,१५.
मुनिरुवाच प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् । मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम् ॥ १,१५.
इयं च वर्तते सन्ध्या परिणाममहर्गतम् । उपहासः किमर्थोयं सद्भावः कथ्यतां मम ॥ १,१५.
प्रम्लोचोवाच प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा । नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ १,१५.
सोम उवाच ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् । कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ १,१५.
प्रम्लोचोवाच सप्तोत्तराम्यतीतानि नववर्षशतानि ते । मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ १,१५.
ऋषिरुवाच सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे । दिनमेकमहं मन्येत्वया सार्धमिहासितम् ॥ १,१५.
प्रम्लोचोवाच वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके । विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ १,१५.
सोम उवाच निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः । धिक्धिक्मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ १,१५.
मुनिरुवाच तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् । हतो विवेकः केनापि योषिन्मोहाय निर्मिताः ॥ १,१५.
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे । मतिरेषा हृता येन धिक्तं कामं महाग्रहम् ॥ १,१५.
व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च । नरकग्राममर्गेण सङ्गेनापहृतानि मे ॥ १,१५.
विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना । तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ १,१५.
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया । देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ १,१५.
न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना । सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह ॥ १,१५.
अथ वा तव को दोषः किं वा कुप्याम्यहं तव । ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ १,१५.
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः । त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम् ॥ १,१५.
सोम उवाच यावदित्थं स विप्रर्षिस्तां ब्रवीति समुध्यमाम् । तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ १,१५.
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ १,१५.
सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ १,१५.
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै । वृक्षाद्धृक्षं ययौ बाला तदग्रारुणपल्लवैः ॥ १,१५.
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ १,१५.
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ १,१५.
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ १,१५.
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ १,१५.
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः । पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ १,१५.
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः । ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः । ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ १,१५.