परमेशत्वगुणवत्सर्वभूतमसंशयम् । नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ १,१४.
श्रीपराशर उवाच एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः । दशवर्षसहस्राणि तपश्चेरुर्महार्णवे ॥ १,१४.
ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः । ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः ॥ १,१४.
पतत्रिराजमारूढमवलोक्य प्रचेतसः । प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥ १,१४.
ततस्तानाह भगवान्व्रयतामीप्सतो वरः । प्रसादसुमुखोहं वो वरदः समुपस्थितः ॥ १,१४.
ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः । यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ १,१४.
स चापि देवस्तं दत्त्वा यथभिलषितं वरम् । अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥ १,१४.
श्रीपराशर उवाच तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः । अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ १,१५.
नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः । दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः ॥ १,१५.
तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः । मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ १,१५.
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् । तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ १,१५.
द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु । उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ १,१५.
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम । सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ १,१५.
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी । भविष्यज्जानता पूर्वं मया गोभिर्विवर्धिता ॥ १,१५.
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता । भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ १,१५.
युष्माकं तेज सोर्धेन मम चार्धेन तेजसः । अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः ॥ १,१५.
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै । तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ १,१५.
कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः । मुरम्ये गोमतीतीरे म तेपे परमं तपः ॥ १,१५.
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ १,१५.
क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् । अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ १,१५.
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् । प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ १,१५.
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः । दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ १,१५.
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः । बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ १,१५.
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् । उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥ १,१५.
पुनर्गते वर्षशते साधिक सा शुभानना । यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ १,१५.
उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् । इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि ॥ १,१५.
सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः । शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत ॥ १,१५.
गमनाय महाभाग देवराजनिवेशनम् । प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ १,१५.
तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा । प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम् ॥ १,१५.
तया च रमतस्तस्य परमर्षेरहर्निशम् । नवंनवमभूत्प्रम मन्मथाविष्टचेतसः ॥ १,१५.