प्रचेतस ऊचुः येन तात प्रजावृद्धौ समर्था कर्मणा वयम् । भवेम तत्समस्तं नः कर्म व्याख्यातुमर्हसि ॥ १,१४.
पितोवाच आराध्य वरदं विष्णुमिष्टप्राप्तिमसंशयम् । समेति नान्यथा मर्त्यः किमन्यत्कथयामि वः ॥ १,१४.
तस्मात्प्रजा विवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् । आराधयत गोविन्दं यदि सिद्धिमभीप्सथः ॥ १,१४.
धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा । आराधनीयो भगवाननादिपुरुषोत्तमः ॥ १,१४.
यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः । तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥ १,१४.
श्रीपराशर उवाच इत्येवमुक्तास्ते पित्रा पुत्राः प्राचेतसो दश । मग्नाः पयोधिसलिले तपस्तेषुः समाहिताः ॥ १,१४.
दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ । नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ १,१४.
तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् । तुष्टुवुर्यःस्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥ १,१४.
श्रीमैत्रेय उवाच स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः । चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥ १,१४.
श्रीपराशर उवाच शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः । तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥ १,१४.
प्रचेतस ऊचुः नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती । तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ १,१४.
ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् । योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥ १,१४.
यस्याहः प्रथमं रूपमरूपस्य तथा निशा । संध्या च परमेशस्य तस्मै कालात्मने नमः ॥ १,१४.
भुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः । बीजभूतं समस्तस्य तस्मै सोमात्मने नमः ॥ १,१४.
यस्तमास्यत्ति तीव्रात्मा प्रभाभिर्भासयन्नभः । घर्मशीताम्भसा योनिस्तस्मै सूर्यत्मने नमः ॥ १,१४.
काठिन्यवान् यो बिभर्ति जगदेतदशेषतः । शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ १,१४.
यद्योनिभूतं जगतो वीजं यत्सर्वदेहिनाम् । तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ १,१४.
यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक्तथा । पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ १,१४.
पञ्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिशम् । आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ १,१४.
अवकाशमशेषाणां भूतानां यः प्रयच्छति । अनन्तमूर्तिमाञ्छुद्धस्तस्मै व्योमात्मने नमः ॥ १,१४.
समस्तेन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् । तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ १,१४.
गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः । यस्तस्मै ज्ञानमूलाय नतास्म हरिमेधसे ॥ १,१४.
गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने नमः ॥ १,१४.
यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् । लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ १,१४.
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः । तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ १,१४.
अविकारमजं शुद्धं निर्गुणं यन्निरजनम् । नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ १,१४.
अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् । अस्नेहच्छायमतनुमसक्तमशरीरीणम् ॥ १,१४.
अनाकाशमसंस्पर्शमगन्धमरसं च यत् । अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ १,१४.
अनामगोमत्रसुखमतेजस्कमहेतुकम् । अभयं भ्रान्तिरहितम निद्रमजरामरम् ॥ १,१४.
अरजोशब्दममृतमप्लुतं यदसंवृतम् । पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम् ॥ १,१४.