श्रीपराशर उवाच तत उत्सारयामास शैलान् शतसहस्रशः। धनुष्कोट्या पदा वैन्यस्तेन शैला विवर्द्धिताः
न हि पूर्वविसर्गे वै विषमे पृथिवीतले। प्रविभागः पुराणां वा ग्रामाणां वा पुराऽभवत्
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः। वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः
यत्रयत्र समं त्वस्य भूमेरासीद्द्विजोत्तम। तत्रतत्र प्रजाः सर्वा निवासं समरोचयत्
आहारः फलमूलानि प्रजानामभवत्तदा। कृच्छ्रेण महता सोपि प्रणष्टास्वौषदीषु वै
स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम्। स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः। सस्यजातानि सर्वाणि प्रजानां हितकाम्यया
तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः
प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता। ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी। ८९ ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रि भिः। गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा
तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः। वत्सदोग्धृविश्षोआ!श्च तेषां तद्योनयोऽभवन्
सैषा धात्री विधात्री च धारिणी पोषणी तथा। सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भवा
एवं प्रभावस्स पृथुः पुत्रो वैन्यस्य वीर्यवान्। जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात्
य इदं जन्म वैन्यस्य पृथोः संकीर्त्तरेन्नरः। न तस्य दुष्कृतं किंचित्फलदायि प्रजायते
दुस्स्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम्। पृथोर्जन्म प्रभावश्च करोति सततं नृणाम्
दीर्घसत्रेण देवेशं सर्व्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति
दीप्यमानः स वपुषा साक्षादग्निरिव ज्वलन् । आद्यमाजगवं नाम खात् पपाग ततो धनुः
चकार ह्टदि तादृक् च कर्मणा कृतवानसौ । ततः स पृथिवीपालः पालयन् वसुधामिमाम्
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नपश्वेष्ठे भविष्यति
ततश्व देवैर्मुनिबिर्दैत्यैरक्षोभिरद्रिभिः । गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा
पृथोः पुत्रौ महावीर्यौ जज्ञातोऽन्तर्द्धिपालिनौ शिखण्डिनी हविर्द्धानमन्तर्द्धानाद् व्यजायत
हविर्द्धानात् षडाग्नेयी धिषणाजनयत् सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ
प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः । हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ १,१४.
प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने । प्राचीनबर्हिरभवत्ख्यातो भुवि महाबलः ॥ १,१४.
समुद्रतनयायां तु कृतदारो महीपतिः । महतस्तमसः पारे सवर्णायां महामते ॥ १,१४.
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ॥ १,१४.
अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः । दशवर्षसहस्राणि समुद्रसलिलेशयः ॥ १,१४.
श्रीमैत्रेय उवाच यदर्थं ते महात्मानस्तपस्तेपुर्महामुने । प्राचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ १,१४.
श्रीपराशर उवाच पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना । प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥ १,१४.
प्राचीनबर्हिरुवाच ब्रह्मणा देवदेवेन समादिष्टोस्म्यहं सुताः । प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत् ॥ १,१४.
तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः । कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥ १,१४.
श्रीपराशर उवाच ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः । तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥ १,१४.