यत्र यत्र ययौ देवी सा तदा भूतधारिणी। तत्र तत्र तु सा वैन्यं ददृशो!ऽभ्युद्यतायुधम्
ततस्तं प्राह वसुधा पृथुं राजपराक्रमम्। प्रवेपमाना तद्बाणपरित्राणपरायणा
पृथिव्युवाच स्त्रीवधे त्वं महापापं किं नरेन्द्र। न पश्यसि। येन मां हंतुमत्यर्थं प्रकरोषि नृपोद्यमम्
पृथुरुवाच एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि। बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः। ७४ पृथिव्युवाच प्रजानामुपकाराय यदि मां त्वं हनिष्यसि आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति
पृथुरुवाच त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम्। आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः
श्रीपराशर उवाच ततः प्रणम्य वसुधा तं भूयः प्राह पार्थिवम्। प्रवेपिताङ्गी परमं साध्वसं समुपागता
पृथिव्युवाच उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः। तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि
समस्ता या मया जीर्णा नरनाथ महौषधीः। यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः
तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर। तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला
समां च कुरु सर्वत्र येन क्षीरं समंततः। वरौषधीबीजभूतं बीजं सर्वत्र भावये
श्रीपराशर उवाच तत उत्सारयामास शैलान् शतसहस्रशः। धनुष्कोट्या पदा वैन्यस्तेन शैला विवर्द्धिताः
न हि पूर्वविसर्गे वै विषमे पृथिवीतले। प्रविभागः पुराणां वा ग्रामाणां वा पुराऽभवत्
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः। वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः
यत्रयत्र समं त्वस्य भूमेरासीद्द्विजोत्तम। तत्रतत्र प्रजाः सर्वा निवासं समरोचयत्
आहारः फलमूलानि प्रजानामभवत्तदा। कृच्छ्रेण महता सोपि प्रणष्टास्वौषदीषु वै
स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम्। स्वपाणौ पृथिवीनाथो दुदोह पृथिवीं पृथुः। सस्यजातानि सर्वाणि प्रजानां हितकाम्यया
तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः
प्राणप्रदाता स पृथुर्यस्माद्भूमेरभूत्पिता। ततस्तु पृथिवीसंज्ञामवापाखिलधारिणी। ८९ ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रि भिः। गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा
तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः। वत्सदोग्धृविश्षोआ!श्च तेषां तद्योनयोऽभवन्
सैषा धात्री विधात्री च धारिणी पोषणी तथा। सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भवा
एवं प्रभावस्स पृथुः पुत्रो वैन्यस्य वीर्यवान्। जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात्
य इदं जन्म वैन्यस्य पृथोः संकीर्त्तरेन्नरः। न तस्य दुष्कृतं किंचित्फलदायि प्रजायते
दुस्स्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम्। पृथोर्जन्म प्रभावश्च करोति सततं नृणाम्
दीर्घसत्रेण देवेशं सर्व्वयज्ञेश्वरं हरिम् । पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति
दीप्यमानः स वपुषा साक्षादग्निरिव ज्वलन् । आद्यमाजगवं नाम खात् पपाग ततो धनुः
चकार ह्टदि तादृक् च कर्मणा कृतवानसौ । ततः स पृथिवीपालः पालयन् वसुधामिमाम्
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि । आधारः कः प्रजानां ते नपश्वेष्ठे भविष्यति
ततश्व देवैर्मुनिबिर्दैत्यैरक्षोभिरद्रिभिः । गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा
पृथोः पुत्रौ महावीर्यौ जज्ञातोऽन्तर्द्धिपालिनौ शिखण्डिनी हविर्द्धानमन्तर्द्धानाद् व्यजायत
हविर्द्धानात् षडाग्नेयी धिषणाजनयत् सुतान् । प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ