मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान्। दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन्। ३९ आद्यमाजगवं नाम खात्पपात ततो धनुः। शराश्च दिव्या नभसः कवचं च पपात ह
तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः
सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययौ। पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना
तं समुद्रा श्च नद्यश्च रत्नान्यादाय सर्वशः। तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे
पितामहश्च भगवान्देवैराङ्गिरसैः सह। स्थावराणि च भूतानि जङ्गमानि च सर्वशः। समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम्
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः। विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ
विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम्। भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि
महता राजराज्येन पृथुर्वैन्यः प्रतापवान्। सोभिषिक्तो महातेजा विधिवद्धर्मको विदै
पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्जिताः। अनुरागात्ततस्तस्य नाम राजेत्यजायत
आपस्तस्तंभिरे चास्य समुद्र मभियास्यतः। पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्
अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिंतया। सर्वकामदुघा गावः पुटके पुटके मधु
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे। सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः
तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञेऽथ मागधः। प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ
स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान्। कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम्
ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली। अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः। स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम्
ऋषय ऊचुः। करिष्यत्येष यत्कर्म चक्रवर्ती महाबलः। गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः
श्रीपराशर उवाच ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ। सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम
तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ। करिष्येते करिष्यामि तदेवाहं समाहितः
यदिमौ वर्जनीयं च किंचिदत्र वदिष्यतः। तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः
अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः। भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ
सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः। ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः
धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः। मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसम्मतः
समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः। ६३ सूतेनोक्तान् गुणानित्थं स तदा मागधेन च। चकार हृदि तादृक् च कर्मणा कृतवानसौ
ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम्। इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः
तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः। ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके। तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम्
प्रजा ऊचुः अराजके नृपश्रेष्ठ धरित्र्! या सकलौषधीः। ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर
त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः। देहि नः क्षुत्परीतानां प्रजानां जीवनौषधीः
श्रीपराशर उवाच ततस्तु नपतिर्दिव्यमादायजगवं धनुः। शरांश्च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम्
ततो ननाश त्वरिता गौर्भूत्वा च वसुन्धरा। सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही