इत्युक्त्वा मंत्रपूतैस्तैः कुशैर्मुनिगणानृपम्। निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना
ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज। किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा
आख्यातं च जनैस्तेषां चोरीभूतैरराजके। राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः
तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः। सुमहद्दृश्यते रेणुः परवित्तापहारिणाम्
ततः संमंत्र्! य ते सर्वे सुनयस्तस्य भूभृतः। ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः
मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल। दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः
किं करोमीति तान्सर्वान्स विप्रानाह चातुरः। निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत्
ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः। निषादा मुनिशार्दूल पापकर्मोपलक्षणाः
तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः। निषादास्ते ततो जाता वेनकल्मषनाशनाः
तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः
मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान्। दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन्। ३९ आद्यमाजगवं नाम खात्पपात ततो धनुः। शराश्च दिव्या नभसः कवचं च पपात ह
तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः
सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययौ। पुन्नाम्नो नरकात् त्रातः सुतेन सुमहात्मना
तं समुद्रा श्च नद्यश्च रत्नान्यादाय सर्वशः। तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे
पितामहश्च भगवान्देवैराङ्गिरसैः सह। स्थावराणि च भूतानि जङ्गमानि च सर्वशः। समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम्
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः। विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ
विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम्। भवत्यव्याहतो यस्य प्रभावस्त्रिदशैरपि
महता राजराज्येन पृथुर्वैन्यः प्रतापवान्। सोभिषिक्तो महातेजा विधिवद्धर्मको विदै
पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्जिताः। अनुरागात्ततस्तस्य नाम राजेत्यजायत
आपस्तस्तंभिरे चास्य समुद्र मभियास्यतः। पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्
अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिंतया। सर्वकामदुघा गावः पुटके पुटके मधु
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे। सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः
तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञेऽथ मागधः। प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ
स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान्। कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम्
ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली। अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः। स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम्
ऋषय ऊचुः। करिष्यत्येष यत्कर्म चक्रवर्ती महाबलः। गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः
श्रीपराशर उवाच ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ। सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम
तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ। करिष्येते करिष्यामि तदेवाहं समाहितः
यदिमौ वर्जनीयं च किंचिदत्र वदिष्यतः। तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः