त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति । स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ १,१२.
यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १,१२.
स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ १,१२.
श्रीपराशर उवाच। 1.13 ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत। शिष्टेराधत्त सुच्छाया पञ्चपुत्रानकल्मषान्
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम्। रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्
अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम्। प्रजापतेरात्मजायां वीरणस्य महात्मनः
मनोरजायन्त दश नड्वलायां महौजसः कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः
कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः। अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव। अभिमन्युश्च दशमो नड्वलायां महौजसः
कुरोरजनयत्पुत्रान् षडाग्नेयी महाप्रभान्। अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम्
अङ्गात्सुनीथापत्यं वै वेनमेकमजायत। प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम्
वेनस्य पाणौ मथिते सम्बभूव महामुने। वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः
येन दुग्धा मही पूर्वं प्रजानां हितकारणात्
मैत्रेय उवाच किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः। यत्र जज्ञे महावीर्यः स पृथुर्मुनिसत्तम
श्रीपराशर उवाच सुनीथा नाम या कन्या मृत्यो प्रथमतोऽभवत्। अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत
स मातामहदोषेण तेन मृत्योः सुतात्मजः। निसर्गादेष मैत्रेय दुष्ट एव व्यजायत
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः। घोषयामास स तदा पृथिव्यां पृथिवीपतिः
न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन। भोक्ता यज्ञस्य कस्त्वन्योऽह्यहं यज्ञपतिः प्रभुः
ततस्तमृषयः पूर्वं संपूज्यं पृथिवीपतिम्। ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः
ऋषय ऊचुः। भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते। राज्यं देहोपकाराय प्रजानां च हितं परम्
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम्। पूजयिष्याम भद्रं। ते तस्यांशस्ते भविष्यति। १७ यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणितो नृप। अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति
यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः। तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम्
वेन उवाच मत्तः कोऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः। कोयं हरिरिति ख्यातो यो वो यज्ञेश्वरो मतः
ब्रह्मा जनार्दनः शम्भुरिन्द्रो। वायुर्यमो रविः। हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः
एते चान्ये च ये देवाः शापानुग्रहकारिणः। नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः
एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा। न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः
ऋषय ऊचुः देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम्। हविषां परिणामोऽयं यदेतदखिलं जगत्
श्रीपराशर उवाच इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः। यदा ददाति नानुज्ञां प्रोक्तः प्रोक्तः पुनः पुनः
ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः। हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम्
यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम्। विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः