स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्ति र्विष्णुर्वरिष्ठो वरदो वरेण्यः
श्रीमैत्रेय उवाच निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते
श्रीपराशर उवाच शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः । भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता
तन्निबोध यथा सर्गे भगवान्सम्प्रवर्त्तते । नारायणाख्यो भगवान्ब्रह्म लोकपितामहः
उप्तन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्द्ध च परार्द्धमभिधीयते
कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ । तेन तस्य निबोध त्वं परिमाणोपपादनम्
अन्येषां चैव जन्तूनां चराणामचराश्च ये । भूभूभृत्सागरादीनामशेषाणां च सत्तम
काष्ठा पत्र्चदशाख्याता निमेषा मुनिसत्तम । काष्ठा पत्र्चदशाख्याता निमेषा मनिसत्तम । काष्ठा त्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः
तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् । अहोरात्राणि तावानित मासः पक्षद्वयात्मकः
तैः षड्भिरयनं वर्ष द्वेऽयनें दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम्
दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतदिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे
चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् । दिव्याब्दानां सहस्त्राणि युगेष्वाहुः पुराविदः
तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते । सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः
सन्ध्यासध्यांशयोरन्तर्यः कालो मुनिसत्तम । युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः
कृतं त्रेता द्वाररश्च कलिश्चैव चतुर्युगम् । प्रोच्यते तस्तहस्त्र च ब्रह्मणो दिवसं मुने
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश । भवन्ति परिमाणं च तेषां कालकृतं श्रृणु
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः । एककाले हि सृज्यन्ते संह्रियन्ते च पूर्ववत्
चतुर्यगुणां संख्याता साधिका ह्रोकासप्ततिः । मन्वन्तरं मनोः कालः सुरादीनां च सत्तम
अष्टौ शत सहस्त्राणि दिव्ययां संख्यया स्मृतम् । द्विपत्रचाशत्तथान्यानि सहस्त्राण्यधिकानि तु
त्रिंशत्कोट्यस्तु सम्पूर्णाः संख्याताः संख्याया द्विज । सप्तषष्टिस्तथान्यानि नियुतानि महामुने
विंशतिस्तु सह्स्त्राणि कालोऽयमधिकं विना । मन्वन्तरस्य सड्खयेयं मानुषैर्वत्सरैर्द्विज
चतुर्दशगुणो ह्योष कालो ब्राह्ममहः स्मृतम् । ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसत्र्चरः
तदा ही दह्राते सर्वं त्रैलोक्यं भूर्भुवादिकम् । जनं प्रयान्ति तापार्था महर्लोकनिवासिनः
एकार्णवे तु त्रैलोक्ये ब्रह्म नारायणात्मकः । भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः
जनस्थैर्योगिभिर्देवाश्चिन्त्यमानोऽब्जसम्भवः । तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः
एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् । शतं हि तस्य वर्षाणां परमायुर्महात्मनः
एकमस्य व्यतीतं तु परार्द्ध ब्रह्मणोऽनघ । तस्यान्तेऽभून्महाकल्पः पाद्य इत्यभिविश्रुतः
द्वितीयस्य परार्द्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोऽयं प्रथमः परिकीर्तितः
श्रीमैत्रेय उवाच यथा ससर्ज देवोऽसौ देवर्षिपितृदानवान् । मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः