ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् । येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने
श्रीपराशर उवाच साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् । पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह
विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा । श्रुतस्तातस्ततः क्रोधो मैत्रेयाभून्ममातुलः
ततोऽहं रक्षसां सत्रं विनाशाय समारभम् । भस्मीभूताश्च शतशस्तस्मिन्सत्रे निशाचराः
ततः सड्क्षीयमाणेषु तेषु रक्षस्स्वशेषतः । मामुवाच महाभागो वसिष्ठो मत्पितामहः
अलमत्यन्तकोपेन तात मन्युमिमं जहि । राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत्
मूढानामेव भवति क्रोधो ज्ञानवतां कृतः । हन्यते तात कः केन यतः स्वकृतभुक्पुमान्
सत्र्चितस्यापि महता वत्स क्लेशेन मानवैः । यशसस्तपसश्र्चैव क्रोधो नाशकरः परः
स्वर्गापवर्गव्यासेधकारणं परमर्षयः । वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव
अलं निशाचरैर्दग्धैदीनैरनपकारिभिः । सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः
एवं तातेन तेनाहमनुनीतो महात्मना । उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात्
ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः । सम्प्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः
पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः । मामुवाच महाभागो मैत्रेय पुलहाग्रजः
वैरे महति यद्दाक्याद्गुरोरद्याश्रिता क्षमा । त्वया तस्मात्समस्तानि भवात्र्च्छास्त्राणि वेत्स्यति
सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः । त्वया तस्मान्महाभाग ददाम्यन्यं महावरम्
पुराणसंहिताकर्ता भवान्वत्स भविष्यति । देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान्
प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः । मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति
ततश्च प्राह भगवान्वसिष्ठो मे पितामहः । पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता । यदुक्तं तत्स्मृतिं याति त्वत्प्रश्नादखिलं मम
सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते । पुराणसंहितां सम्यक् तां निबोध यथातथम्
विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः
श्रीपराशर उवाच अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे
नमो हिरण्यगर्भाय हरये शंकराय च । वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः । अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे
सर्गस्थितिविनाशानां जगतो यो जगन्मयः । मूलभूतो नमस्तस्मै विष्णवे परमात्मने
आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् । प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम्
ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् । प्रणम्य जगतामीशमजमक्षयमव्ययम्
कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः । पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः
तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे । सारस्वताय तेनापि मह्मं सारस्वतेन च