क्षीणाधिकारःस यदा पुण्यपापविवर्जितः । तदासौ भगवदूध्यानात् परं निर्व्वणमाप्तवान
जब उसका अधिकार क्षीण हो गया और वह पुण्य-पाप से रहित हुआ, तब भगवान का ध्यान करके उसने परम मोक्ष प्राप्त किया।
एवम्प्रभावो दैत्योऽसौ मैत्रेयासीनूमहामतिः । प्रह्लादो भगवदूभक्तो यं त्वं मामनुपृच्छसि
ऐसा प्रभावशाली था वह दैत्य, हे मैत्रेय, जो महान बुद्धिमान प्रह्लाद था, भगवान का भक्त, जिसके बारे में तुमने मुझसे पूछा।
यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । श्वृणोति त्सय पापानि सद्या गच्छन्ति संक्षयम्
जो कोई उस महात्मा प्रह्लाद की कथा सुनता है, उसके पाप तुरंत नष्ट हो जाते हैं।
अहोरात्रकृतं पापं प्रह्लादचरितं नरः । श्वृणवन् पठंश्व मैत्रेय व्यपोहति न संशयः
दिन या रात में किया गया कोई भी पाप, हे मैत्रेय, प्रह्लाद की कथा सुनने या पढ़ने से मिट जाता है— इसमें कोई संदेह नहीं।
पौर्णामास्याममावस्यामष्टम्यामथवा पठन् । द्रादश्यां वा तदाप्नोति गोप्रदानफलं द्रिज
पूर्णिमा, अमावस्या, अष्टमी या द्वादशी के दिन इसका पाठ करने से, हे द्विज, गौदान के बराबर फल मिलता है।
प्रह्लादं सकलापत्सु यथा रक्षितवान् हरिः । तथा रक्षति यस्तस्य श्वृणोति चरितं सदा
जैसे हरि ने प्रह्लाद की हर विपत्ति में रक्षा की, वैसे ही जो उसकी कथा सदा सुनता है, उसकी भी रक्षा करते हैं।
प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च विरोचनस्तु प्राह्लादिर्बलिर्जज्ञे विरोचनात् १ बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं महामुने हिरण्याक्षसुताश्चासन्सर्व एव महा बलाः २ झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा महानाभो महाबाहुः कालनाभस्तथापरः ३ अभवन्दनुपूत्राश्च द्विमूर्द्धा शंबरस्तथा अयोमुखः शंकुशिराः कपिलः शंकरस्तथा ४ एकचक्रो महाबाहुस्तारकश्च महाबलः स्वर्भानुर्वृषपर्वा च पुलोम च महाबलः ५ एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान् ६ स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी उपदानी हयशिराः प्रख्याता वरकन्यकाः ७ वैश्वानरसुते चोभे पुलोमा कालका तथा उभे सुते महाभागे मारीचेस्तु परिग्रहः ८ ताभ्यां पुत्रसहस्राणि षष्टिर्दानवसत्तमाः पौलोमाः कालकेयाश्च मारीचतनयाः स्मृताः ९ ततोऽपरेमहावीर्या दारुणास्त्वतिनिर्घृणाः सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा १० त्र्! यंशः शल्यश्च बलवान् नभश्चैव महाबलः वातापी नमुचिश्चैव इल्वलः खसृमस्तथा ११ आन्धको नरकश्चैव कालनाभस्तथैव च स्वर्भानुश्च महावीर्यो वक्त्रयोधी महासुरः १२ एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाः एतेषां पुत्रपौत्राश्च शतशोऽथ सहस्रशः १३ प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले समुत्पन्नाः सुमहता तपसा भावितात्मनः १४ षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताः शुकी श्येनी च भासी च सुग्रीवी शुचिगृद्ध्रका १५ शुकी शुकानजनयदुलूकप्रत्युलूकिकान् श्येनी श्येनांस्तथा भासी भासान्गृद्धांश्च गृद्ध्र्यपि १६ शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्त्तितः १७ विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौ सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः १८ सुरसायां सहस्रं तु सर्पाणाममितौजसाम् अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम् १९ काद्र वेयास्तु बलिनः सहस्रममितौजसः सुपर्णवशगा ब्रह्मन् जज्ञिरे नैकमस्तकाः २० तेषां प्रधानभूतास्तु श्षोवासुकितक्षकाः शंखश्वेतो महापद्मः कम्बलाश्वतरौ तथा २१ एलापुत्रस्तथा नागः कर्कोटकधनञ्जयौ एते चान्ये च बहवो दन्दशूका विषोल्बणाः २२ गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः स्थलजाः पक्षिणोब्जाश्च दारुणाः पिशिताशनाः २३ क्रोधात्तु पिशाचांश्च जनयामास महाबलान् गास्तु वै जनयामास सुरभीर्महिषीस्तथा इरावृक्षलतावल्लीस्तृणजातीश्च सर्वशः २४ स्वसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् २५ एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः तेषां पुत्राश्च पौत्राश्च शतशोथ सहस्रशः २६ एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषे स्मृतः २७ वैवस्वते च महति वारुणे वितते कृतौ जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते २८ पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान् पुत्रत्वे कल्पयामास स्वयमेव पितामहः गन्धर्वभोगिदेवानां दानवानां च सत्तम २९ दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् तया चाराधितः सम्यक्काश्यपस्तपतां वरः ३० वरेण च्छन्दयामास सा च वव्रे ततो वरम् पुत्रमिन्द्र वधार्थाय समर्थममितौजसम् ३१ स च तस्मै वरं प्रादाद्भार्यायै मुनिसत्तमः दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ३२ शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् समाहितातिप्रयता शौचिनी धारयिष्यसि ३३ इत्येवमुक्त्वा तां देवीं संगतः कश्यपो मुनिः दधार सा च तं गर्भं सम्यक्छोचसमन्विता ३४ गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि शुश्रूषुस्तामथागच्छद्विनयादमराधिपः ३५ तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः ऊने वर्षशते चास्या ददर्शान्तरमात्मना ३६ अकृत्वा पादयोः शौचं दितिः शयनमाविशत् निद्रा ं! चाहारयामास तस्याः कुक्षिं प्रविश्य सः ३७ वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा सम्पीड्यमानो वज्रेण स रुरोदातिदारुणम् ३८ मा रोदीरिति तं शक्रः पुनःपुनरभाषत सोऽभवत्सप्तधा गर्भस्तमिंद्र ः! कुपितः पुनः ३९ एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा मरुतो नाम देवास्ते बभूवुरतिवेगिनः ४० यदुक्तं वै भगवता तेनैव मरुतोऽभवन् देवा एकोनपञ्चाशत्सहाया वज्रपाणिनः ४१ इति श्रीविष्णुपुराणे प्रथमेंशे एकविंशोऽध्यायः २१ संह्लादपुत्र आयुष्मान् शिविर्वाष्कल एव च । विरोचनस्तु प्राह्लादिर्बलिर्ज्जज्ञच विरोचनात्
बलेः पुत्रशतन्त्वासीदू बाणज्येष्ठं भहामुने । हिरणयाक्षसुताश्वासन् सर्व्व एव महाबलाः
बलि के सौ पुत्र थे, जिनमें बाण सबसे बड़ा था, हे महर्षि। हिरण्याक्ष के सभी पुत्र भी अत्यंत बलशाली थे।
उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा महानाभो महाबाबहु- कालनाभस्तथापरः
झर्झर, शकुनि, भूतसंतापन, महानाभ, महाबाहु और एक अन्य कालानाभ भी उनमें थे।
अभवन् दनुपुत्राश्च द्रिमूर्द्धा शङ्करस्तथा । अयोमुखः शङ्कु शिराः कपिलः शम्बरस्तथा
अनुपु, द्विमूर्धा, शंबर, अयोमुख, शंकुशिरा, कपिल और शंकर भी दनु के पुत्र हुए।
एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वृ षपर्व्वा च पुलोमा च महावलः
एकचक्र, महाबाहु, तारक महाबली, स्वर्भानु, वृषपर्वा और पुलोमा— ये सभी अत्यंत बलवान थे।
एते दनोः सुताः क्याता विप्रचित्तिश्च वीर्य्यवान । स्वर्भानोस्तु प्रभा कन्या शर्म्मिष्ठा वार्षपर्व्वाणी
ये दनु के प्रसिद्ध पुत्र हैं, और वीर्यशाली विप्रचित्ति भी इनमें सम्मिलित हैं।
उपदानवी-हयशिराः प्रख्याता वरकन्यकाः । वैश्वानरसुते चोभे पुलोमा कालका तथा
स्वर्भानु की कन्याएँ थीं— प्रभा, शर्मिष्ठा और वर्षपर्वणी। उपदानवी और हयशिरा भी प्रसिद्ध कन्याएँ थीं।
अबे सुते महाभागे मरीचेस्तु परिग्रहः । ताभ्यां पुत्रसहस्त्राणि षष्टिर्दानवसत्तमाः
पुलोमा और कालका, दोनों वैश्वानर की पुत्रियाँ थीं, और वे दोनों मरीचि की पत्नियाँ बनीं।
पौलोमा कालकेयाश्च मीरीचतनयाः स्मृताः । ततोऽपरो महावीर्य्या दारुणास्त्वतिनिर्घृणाः
उनसे साठ हज़ार श्रेष्ठ दानव उत्पन्न हुए, जिन्हें पौलोम और कालकेय कहा गया, ये मरीचि के पुत्र माने जाते हैं।
सिंहिकायामथोत्पन्ना विप्रतचित्तेः सुतास्तथा । व्यंशः शल्यश्च बलवान् नभश्चैव महाबलः
फिर सिंहिका और विप्रचित्ति के भी बलवान, क्रूर और अत्यंत निर्दयी पुत्र उत्पन्न हुए।
वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा । अञ्झको नरकश्चैव कालनाभस्तथवै च
उनमें त्रयंश, बलशाली शल्य, महाबली नभ, वातापि, नमुचि, इल्वल और खासृम भी थे।
स्वर्भानुश्च महावीर्य्यश्चक्रयोधी महाबलः । एते ते दानवाः श्वे ष्ठो दनुवंशविवर्द्धनाः
आंधक, नरक, कालनाभ, महावीर्यवान स्वर्भानु और महान असुर वक्रयोधी भी उनमें शामिल थे।
एतेषां पुत्रपौत्राश्च शतशोऽथ सहस्त्रशः । प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले
ये सभी दानव दानु वंश की वृद्धि करने वाले माने जाते हैं, इनके पुत्र और पौत्र सैकड़ों-हज़ारों की संख्या में हैं।
समुत्पन्नाः सुमहता तपसा भावितात्मनः । ट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताः
प्रह्लाद दैत्य के वंश में, कठोर तप और आत्मसंयम से निवातकवच उत्पन्न हुए।
शुकी श्येनी च भीसी च सुग्रीवी शुचिगृध्रिका । शुकी शुकानजनयदुलूकी प्रत्युलूककान्
ताम्रा की छह बलशाली पुत्रियाँ थीं—शुकी, श्येनी, भासी, सुग्रीवी, शुचि और गृध्रिका।
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्रयपि । शुच्यौदकान् पक्षिगणान् सुग्रीवी तु व्यजायत
शुकी ने तोते, उल्लू और रात में उड़ने वाले पक्षी उत्पन्न किए; श्येनी से बाज, भासी से बगुले और गिद्ध, तथा गृध्री से भी गिद्ध उत्पन्न हुए।
अश्वानुष्ट्रान् गर्द्द भांश्च ताम्रावंशः प्रकीर्त्तितः । विनतायास्तु पुत्रौ द्रौ विख्यातौ गरुड़ारुणौ
शुचि से जलचर पक्षी, सुग्रीवी से अनेक प्रकार के पक्षी, और ताम्रा के वंश से घोड़े, ऊँट और गधे उत्पन्न हुए।
सुपर्णः पततां श्वष्ठो दारुणः पन्नागाशनः । सुरसायां सहस्त्रन्तु सर्पाणाममितौजसाम्
विनता के दो पुत्र हुए—गरुड़ और अरुण, जो पाप से दूर रहते थे; सुपर्ण पक्षियों में श्रेष्ठ और दारुण सर्पों का भक्षक था।
अनेकखिरसां ब्रह्मन् शेचराणां महात्मनाम् । काद्रवेयास्तु बलिनः सहस्त्रममितौजसः
सुरसा से हज़ारों बलशाली, अनेक सिर वाले, महान आत्मा वाले और दिव्य सर्प उत्पन्न हुए।
सुपर्णावशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः । तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः
कद्रू से हज़ारों शक्तिशाली, अनेक सिर वाले सर्प उत्पन्न हुए, जो सुपर्ण के अधीन थे।
शङ्खः श्वेतो महापह्मः कम्बलाख्वतरौ तथा । एलापत्रस्तथा नागः कर्कोटक-दनञ्जयौ
उनमें शेष, वासुकि, तक्षक, शंख, श्वेत, महापद्म, कंबल और अश्वतर प्रमुख हैं।
एते चान्ये च बहवो दन्दशूका विषोल्वणाः । गणां क्रोधवशं विद्धि तस्याः सर्व्वो च दंष्टिणः
उनमें नाग—ईलापुत्र, कर्कोटक और धनंजय भी हैं, और भी बहुत से विषैले, भयंकर सर्प उत्पन्न हुए।
स्थलजाः पक्षिणोऽब्जाश्च दारुणाः पिशिताशनाः । क्रोधा तु जनयामास पिशाचांश्यच महाबलान्
इन सबको, जो स्थल, जल और आकाश में उत्पन्न हुए, भयानक और मांसाहारी हैं, क्रोधवशा की संतान जानो।
गास्तु वै जनयामास सुरभिर्म्महिषांस्तथा । इरा वृक्ष-लता-वल्लीस्तृणजातीश्च सर्व्वशः । खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा
क्रोधा से महाबली पिशाच उत्पन्न हुए; सुरभि ने गाय और भैंसें, इरा ने पेड़, लताएँ, बेलें और सभी प्रकार की घास उत्पन्न कीं।
प्रह्लाद के पुत्र आयुष्मान, शिबि, वाष्कल और अन्य थे। प्रह्लाद से विरोचन उत्पन्न हुए, और विरोचन से बलि का जन्म हुआ।