मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बब्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ४,२०.
By the daughter of the king of Manipur, Arjuna begot a son named Babruvahana, through the custom of putrika.
सुभद्रायां चार्भकत्वेपि योसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ४,२०.
Even in childhood, Subhadra bore Abhimanyu, who was endowed with great strength and valor, and who conquered all enemy warriors.
अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतःसकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारममानुषरूपधारीणोनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ४,२०.
When Abhimanyu's wife Uttara was pregnant, the child was reduced to ashes in the womb by the Brahma weapon deployed by Ashvatthama; but by the will and power of the Lord, whose feet are worshipped by all gods and demons, the child was revived and Parikshit was born.
योऽयं सांप्रतमेदद्भूमण्डलमखण्डितायतिधर्मेण पालयतीति ॥ ४,२०.
He is the one who now rules this earth with unbroken righteousness.
अतः परं भविष्यानहं भूमिपालान् कीर्त्तयिष्ये । योऽयं साम्प्रतमवनीपतिः,पराक्षित् तस्यापि जनमेजय - श्रुतसेनोग्रसेन-भीमसेनाः पुत्राश्वत्वारो भविष्यन्ति ।। ४-२०-
Next, I will recount the future kings. The current ruler of the land is Parikshit; his sons will be Janamejaya, Shrutasena, Ugrasena, and Bhimasena.
जनमेजयस्यापि शतानीको भविष्यति । योऽसौ याज्ञवल्क्याद् वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्व शौनकोपदेशादात्मविज्ञानप्रवीणः परं निर्व्वाणमवाप्स्यति ।। ४-२०-
Janamejaya's son will be Shatanika, who, having studied the Vedas from Yajnavalkya and acquired weapons from Kripa, with a mind detached from pleasure and pain, and instructed by Shaunaka in self-knowledge, will attain supreme liberation.
शतानीकादश्वमेधदत्तो भविता तस्मादप्यधिसीमकृष्णः, अधिसीमकृष्णाद् निचक्षुः, यो गङ्गयापहृते हस्तिनापुरे कौशाम्ब्यां निवत्स्यति । तस्याप्युष्णः पुत्रो भविता । उष्णाद्विचिित्ररथः, ततः शुचिरथः, तस्माद् वृष्णि मान्, ततः सुषेणः, तस्मादपि सुनीथः, सुनीथादृचः, ततो नृचक्षुः, तस्यापि सुखाबलः, तस्मात् परिप्लवः, ततश्व सुनयः, ततो मेधावी, मेधाविनो नृपञ्जयः, ततो मृदुः, तस्मात् तिग्मः, वसुदानः, ततोऽप्यपरः शतानीकः ।। ४-२०-
From Śatānīka will be born Aśvamedhadatta; from him, Adhisīmakṛṣṇa; from Adhisīmakṛṣṇa, Nicakṣu, who, after Hastināpura is carried away by the Ganges, will reside in Kauśāmbī. He will have a son named Uṣṇa; from Uṣṇa will come Vicitraratha, then Śuciratha, from him Vṛṣṇimān, then Suṣeṇa, from him Sunītha, from Sunītha, Ṛca, then Nṛcakṣu, whose son will be Sukhābala, from him Pariplava, then Sunaya, then Medhāvī, from Medhāvī, Nṛpañjaya, then Mṛdu, from him Tigma, then Vasudāna, and after him, another Śatānīka.
तस्माच्च उदयनः, उदयनाद्विहीनरः, ततश्च दण्डपाणिः, ततो निरमित्रः, तस्माच्च क्षेमकः । तत्रायं श्लोकः । ब्रह्मक्षत्रस्य यो योनिर्वंशो राजर्षिसत्कृतः । क्षेमकं प्राप्य राजानं संस्थानं प्राप्स्यते कलौ ।। ४-२०-
From him will be Udayana; from Udayana, Vihīnara; then Daṇḍapāṇi, then Niramitra, and from him, Kṣemaka. Here is this verse: 'The lineage which is the source of Brahmins and Kṣatriyas, honored by royal sages, will, upon reaching King Kṣemaka, come to an end in the Kali age.'
श्रीपराशर उवाच अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ ४,२२.
Śrī Parāśara said: Now the future kings of the Ikṣvāku line will be described.
बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ ४,२२.
Bṛhadkṣaṇa will be the son of Bṛhadbala.
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवाकरः ॥ ४,२२.
From him will come Urukṣaya; from him, Vatsavyūha; then Prativyoma; from him, Divākara.
तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य च प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ ४,२२.
From him, Sahadeva; from Sahadeva, Bṛhadaśva; his son will be Bhānuratha; from him, Pratītāśva; from him, Supratīka; then Marudeva; from him, Sunakṣatra; from him, Kinnara.
किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ ४,२२.
From Kinnara, Antarikṣa; from him, Suparṇa; then Amitrajit.
ततश्च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ ४,२२.
Then Bṛhadbhāja; his son will be Dharmī; from Dharmī, Kṛtañjaya.
कृतञ्जयाद्रणञ्जयः ॥ ४,२२.
From Kṛtañjaya, Raṇañjaya.
रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ ४,२२.
From Raṇañjaya, Saṃjaya; from him, Śākya; from Śākya, Śuddhodana; from him, Rāhula; then Prasenajit.
ततश्च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ ४,२२.
Then Kṣudraka; then Kuṇḍaka; from him, Suratha.
तत्पुत्रश्च सुमित्रः ॥ ४,२२.
His son will be Sumitra.
इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ ४,२२.
Thus, these are the Ikṣvākus descended from Bṛhadbala.
अत्रानुवंशश्लोकः ॥ ४,२२.
Here is the verse about the lineage.
इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ ४,२२.
This is the lineage of the Ikṣvākus, which will end with Sumitra; when it reaches that king, the line will come to an end in the Kali age.
मागधानां बार्हद्रथानां भविष्याणामनुक्रमं कथयामि ।। ४-२३-
Now I will recount the succession of the future Bārhadrathas among the Māgadhas.
अत्र हि वंशे महाबला जरासन्धप्रधानां बङूवुः ।। ४-२३-
In this line, there were powerful kings, foremost among them Jarāsandha.
जरासचन्धसुतात् सहदेवचात सोमापिः, तस्मात् श्रुतवान्, तस्याप्ययुतायुः, ततश्व निरमित्रः तत्तनयः सुक्षत्रः, तस्मादपि बृहत्कर्म्मा, ततश्व सेनजित्, तस्माज्व श्रुतञ्जयः, ततो विप्रः, तस्य च पुत्रः शुचिनामा भविष्यति । तस्यापि क्षेम्यः, ततश्व सुव्रतादू धर्म्मः, ततः सुश्रमः, ततो दृढ़सेनः, ततः सुमतिः, तस्मात् सुबलः, तस्य सुनीतो भविता । ततः सत्यजित्, सत्यजितो विशजित्, तस्यापि रिपुञ्जयः पुत्रः, इत्येते बाहद्रथा भूपतयो वर्षसहस्त्रमेकं भविष्यन्ति ।। ४-२३-
From Jarāsandha's son came Sahadeva, then Somāpi; from him, Śrutavān; his son will be Ayutāyu; then Niramitra, whose son will be Sukṣatra; from him, Bṛhatkarman; then Senajit; from him, Śrutañjaya; then Vipra; his son will be named Śuci; from him, Kṣemya; then from Suvrata, Dharma; then Suśrama; then Dṛḍhasena; then Sumati; from him, Subala; his son will be Sunīta; then Satyajit; from Satyajit, Viśajit; his son will be Ripuñjaya. These Bārhadratha kings will rule for one thousand years.
श्रीपराशर उवाच । योऽयं रिपुंजयो नाम बार्हद्रथोंत्यः तस्यामात्यो मुनिको नाम भविष्यति
Śrī Parāśara said: This Ripuñjaya, the last of the Bārhadrathas, will have a minister named Munika.
स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति
He, having slain his master, will anoint his own son named Pradyota as king.
तस्यापि बलाकनामा पुत्रो भविता
He too will have a son named Bālaka.
ततश्च विशाखयूपः
After him will be Viśākhayūpa.
तत्पुत्रो जनकः
His son will be Janaka.
तस्य च नंदिवर्द्धनः
And his son will be Nandivardhana.