ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २,४.
Brahmins, Kṣatriyas, Vaiśyas, and Śūdras are mentioned in order.
यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥ २,४.
Because of their own prescribed duties and authority, there in Kuśa-dvīpa they worship Janārdana in the form of Brahman, and by such worship they destroy the severe fruits of excessive authority.
विद्रुमो हेमशैलश्च द्यतिमान् पुष्पवांस्तथा । कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ २,४.
Vidruma, Hemashaila, Dyutimat, Pushpavan, Kushashaya, Hari, and the seventh, Mandaracala—these are the mountains.
वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने । नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ २,४.
These seven are the mountains of the region, O great sage, and there are also seven rivers there; listen to their names in order.
धूतपापा शिवा चैव पवित्रा संमतिस्तथा । विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥ २,४.
Dhūtapāpā, Shivā, Pavitrā, Saṃmati, Vidyudambhā, Mahī, and Sarvapāpaharā—these are the rivers that remove all sins.
अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः । कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ २,४.
There are thousands of other small rivers and hills there as well; in Kushadvīpa, Guśastamba is the renowned name among them.
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः । घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ २,४.
That continent, of the same measure, is surrounded by the ocean of clarified butter; and the Ghṛtoda ocean is encircled by the Krauñca continent.
क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् । कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥ २,४.
O greatly fortunate one, listen now of another great continent, Krauñca, whose expanse is twice that of Kushadvīpa.
क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ २,४.
In Krauñcadvīpa, the sons of Dyutimat, that great soul, became the rulers; the regions are named after them by the king.
कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ २,४.
Kushala, Mallaga, Uṣṇa, Pīvara, Andhakāraka, Muni, and Dundubhi—these seven, O sage, are his sons.
तत्रापि देवगन्धर्वसेविताः सुमनोहराः । वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ २,४.
There too are delightful mountain ranges, frequented by gods and gandharvas; O wise one, listen to their names.
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः । चतुर्थो रत्नशैलश्च स्वाहिनी हयसन्निभः ॥ २,४.
Krauñca, Vāmana, the third Andhakāraka, the fourth Ratnashaila, Svāhinī, and Hayasannibha are the mountains.
दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् । दुन्दुभिश्च महाशैलो द्विगुणास्त परस्परम् । द्वीपाद्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥ २,४.
Divāvṛt is the fifth, then Puṇḍarīkavān, and Dundubhi, the great mountain; each is twice the size of the previous, just as the continents are.
वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च । निवसंति निरातङ्काः सह देवगणैः प्रजाः ॥ २,४.
In these beautiful regions and excellent mountains, the people dwell without fear, together with hosts of gods.
पुष्कराः पुष्कला धन्यास्तिष्याख्याश्च महामुने । ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः ॥ २,४.
Puṣkarāḥ, Puṣkalā, Dhanyā, and Tiṣyā are the names, O great sage, of the Brahmins, Kshatriyas, Vaishyas, and Shudras, as mentioned in order.
नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः । सप्तप्रधानाः शतशस्तत्रान्याः क्षुद्रनिम्नगाः ॥ २,४.
O Maitreya, listen to the rivers there from which they drink; there are seven principal ones, and hundreds of other small streams.
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ २,४.
Gaurī, Kumudvatī, Sandhyā, Rātri, Manojavā, Kṣānti, and Puṇḍarīkā—these seven are the main rivers of the region.
तत्रापि विष्णुर्भगवान्पुष्काराद्यैर्जानार्दनः । यागौ रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥ २,४.
There too, Lord Vishnu, known as Puṣkārādya and Janārdana, is worshipped in the form of Rudra at the sacrifices.
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च । आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः ॥ २,४.
Krauñcadvīpa is entirely surrounded by the ocean of curds, which is equal in measure to the Krauñca continent.
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः । क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने ॥ २,४.
And the ocean of curds is in turn encircled by the Śākadvīpa, which is twice the expanse of Krauñcadvīpa, O great sage.
शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः । सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः ॥ २,४.
Even Bhavya, the lord of Śākadvīpa and a great soul, had seven sons; to each of them he gave seven regions.
जलदश्च कुमारश्च मुकुमारो मरीचकः । कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ २,४.
Jalada, Kumāra, Mukumāra, Marīcaka, Kusumoda, Maudāki, and Mahādruma were their names.
तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् । तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः ॥ २,४.
There, too, the seven regions are named after them in succession; likewise, seven mountains divide those regions.
पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः । तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज । आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २,४.
There, the eastern mountain is Udaya; Jalādhāra is another; likewise Raivataka, Śyāma, Astagiri, Āmbikeya, and the delightful Kesari, the foremost mountain.
शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ २,४.
Śāka is the great tree there, served by Siddhas and Gandharvas; from the touch of its wind arises supreme delight.
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ २,४.
There are virtuous peoples, endowed with the four classes; and there are sacred rivers, removing all fear of sin.
सुकुमारी कुमारी च नलिनी धेनुका च या । इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ २,४.
Sukumārī, Kumārī, Nalinī, Dhenukā, Ikṣu, Veṇukā, and Gabhastī are the seven rivers there.
अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने । महीधरास्तथा सन्ति शतशोथ सहस्रशः ॥ २,४.
And there are hundreds of other small rivers, O great sage, and mountains by the hundreds and thousands.
ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः । वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ २,४.
Those who dwell in the regions such as Jalada, joyfully drink from them; these peoples, descending from heaven, come to earth.
धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् । मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ २,४.
There is no loss of righteousness among them, nor conflict with one another; nor any transgression of boundaries in those seven lands.