इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः । सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २,४.
There, the Blessed Lord is worshipped by those classes, beginning with the Āryakas, as the creator of the world in the form of Sīma, the universal Lord, Hari.
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः । तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ २,४.
Plakṣa Island is surrounded, in the same measure as itself, by a region of sugarcane juice, forming a ring around it.
इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः । संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥ २,४.
Thus, O Maitreya, Plakṣa Island has been described to you in brief by me; now listen to my account of Śālmalī.
शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु । तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ २,४.
The lord of Śālmalī is Vīra, who is radiant; hear now the names of his seven sons, which are the seven regions there.
श्वेतोथ हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ २,४.
O great sage, Śveta, Harita, Jīmūta, Rohita, Vaidyuta, Mānasa, and Suprabha are the names.
शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः । विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २,४.
That ocean, surrounding the Śālmalī continent, is called Suroda, and its water is sweet like sugarcane; it is situated all around, being twice as wide as the continent.
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः । वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ २,४.
There also are known to be seven mountains, sources of jewels, which distinguish the regions, and likewise seven great rivers.
कुमुदश्चेन्नतश्चैव तृतीयश्च बलाहकः । द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २,४.
Kumuda and Nata, and the third called Balāhaka, Droṇa—where great medicinal herbs grow—is the fourth great mountain.
कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस्तथा । ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ २,४.
Kaṅka is the fifth, Mahiṣa the sixth, and Kakudmat, the best of mountains, is the seventh; now hear from me the names of the rivers.
योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी । निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २,४.
Yoni, Toya, Vitṛṣṇā, Candra, Muktā, Vimocanī, and Nivṛtti are remembered as the seven; they are said to remove sin.
श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा । जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् । सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ २,४.
Śveta, Harita, Vaidyuta, Mānasa, Jīmūta, Rohita, and Suprabha—these are the seven regions, each inhabited by the four social orders.
शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने । कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् ॥ २,४.
O great sage, the people who dwell on Śālmalī are of four colors: tawny, red, yellow, and black, each distinct from the others.
ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् । भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् । वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥ २,४.
Brahmins, Kṣatriyas, Vaiśyas, and Śūdras there worship the Blessed Lord, the imperishable Self of all, in the form of wind, with excellent sacrifices, upholding the order of sacrifice.
देवानामत्र सान्नध्यमतीव सुमनोहरे । शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ २,४.
There stands the Śālmalī tree, exceedingly large and delightful, known as the bringer of contentment, beloved among the gods.
एष द्वीपः समुद्रेण सुरोदेन समावृतः । विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ २,४.
This continent is surrounded by the ocean called Suroda, which is equal in extent to Śālmalī on all sides.
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः । शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥ २,४.
Encircled by Suroda, on all sides lies the Kuśa continent, which is twice the width of Śālmalī.
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान् ॥ २,४.
Hear now the names of the seven sons of Jyotiṣmat, the ruler of Kuśa-dvīpa.
उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः । प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥ २,४.
Udbhida, Veṇumān, Veratha, Lambana, Dhṛti, Prabhākara, and Kapila—these are their names, and thus the regions are named after them.
तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः । तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥ २,४.
There dwell humans together with Daityas and Dānavas, as well as gods, Gandharvas, Yakṣas, Kimpuruṣas, and others.
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः । दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥ २,४.
There too are four social orders, intent on their own duties: Daminas, Śuṣmiṇas, Snehās, and Mandehas, O great sage.
ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २,४.
Brahmins, Kṣatriyas, Vaiśyas, and Śūdras are mentioned in order.
यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते । तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् । यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥ २,४.
Because of their own prescribed duties and authority, there in Kuśa-dvīpa they worship Janārdana in the form of Brahman, and by such worship they destroy the severe fruits of excessive authority.
विद्रुमो हेमशैलश्च द्यतिमान् पुष्पवांस्तथा । कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ २,४.
Vidruma, Hemashaila, Dyutimat, Pushpavan, Kushashaya, Hari, and the seventh, Mandaracala—these are the mountains.
वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने । नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ २,४.
These seven are the mountains of the region, O great sage, and there are also seven rivers there; listen to their names in order.
धूतपापा शिवा चैव पवित्रा संमतिस्तथा । विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥ २,४.
Dhūtapāpā, Shivā, Pavitrā, Saṃmati, Vidyudambhā, Mahī, and Sarvapāpaharā—these are the rivers that remove all sins.
अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः । कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ २,४.
There are thousands of other small rivers and hills there as well; in Kushadvīpa, Guśastamba is the renowned name among them.
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः । घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ २,४.
That continent, of the same measure, is surrounded by the ocean of clarified butter; and the Ghṛtoda ocean is encircled by the Krauñca continent.
क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् । कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥ २,४.
O greatly fortunate one, listen now of another great continent, Krauñca, whose expanse is twice that of Kushadvīpa.
क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः । तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ २,४.
In Krauñcadvīpa, the sons of Dyutimat, that great soul, became the rulers; the regions are named after them by the king.
कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः । मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ २,४.
Kushala, Mallaga, Uṣṇa, Pīvara, Andhakāraka, Muni, and Dundubhi—these seven, O sage, are his sons.