अर्काग्निमण्डले सोमे पर्वकालः कलाश्रयः। एवं स शुक्रपक्षो वै रजन्याः पर्वसन्धिषु ।। ५६.
सम्पूर्णमण्डलः श्रीमांश्चन्द्रमा उपरज्यते। यस्मादाप्यायते सोमः पञ्चदश्यान्तु पूर्णिमा ।। ५६.
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्। तस्मात् कला पञ्चदशी सोमे नास्ति तु षोडशी। तस्मात्सोमस्य भवति पञ्चदश्यां महाक्षयः ।। ५६.
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः। आर्त्तवा ऋतवो यस्मात्ते देवा भावयन्ति च ।। ५६.
अतः पितॄन् प्रवक्ष्यामि मासश्राद्धभुजस्तु ये। तेषां गतिञ्च सत्त्वञ्च गतिं श्राद्धस्य चैव हि ।। ५६.
न मृतानां गतिः शक्या विज्ञातुं पुनरागतिः। तपसापि प्रसिद्धेन किं पुनर्मांसचक्षुषा ।। ५६.
श्राद्धदेवान् पिदॄनेतान् पितरो लौकिकाः स्मृताः। देवाः सौम्याश्च यज्वानः सर्वे चैव ह्ययोनिजाः ।। ५६.
देवास्ते पितरः सर्वे देवास्तान् भावयन्त्युत। मनुष्याः पितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ।। ५६.
पिता पितामहश्चैव तथैव प्रपितामहः। यज्वानो ये तु सोमे न सोमवन्तस्तु ते स्मृताः ।। ५६.
ये यज्वानः स्मृतास्तेषां ते वै बर्हिषदः स्मृताः। कर्मस्वेतेषु युक्तास्ते तृप्यन्त्यादेहसम्भवात् ।। ५६.
अग्निष्वात्ताः स्मृतास्तेषां होमिनो याज्ययाजिनः। ये वाप्याश्रमधर्मेण प्रस्थानेषु व्यवस्थिताः ।। ५६.
अन्ते च नैव सीदन्ति श्रद्धायुक्तेन कर्मणा। ब्रह्मचर्येण तपसा यज्ञेन प्रजया च वै ।। ५६.
श्रद्धया विद्यया चैव प्रदानेन च सप्तधा। कर्मस्वेतेषु ये युक्ता भवन्त्या देवपातनात् ।। ५६.
देवैस्तैः पितृभिः सार्द्धं सूक्ष्मकैः सोमपायकैः। स्वर्गता दिवि मोदन्ते पितृमन्तमुपासते ।। ५६.
प्रजावतां प्रशंसैव स्मृता सिद्धा क्रियावताम्। तेषां निवापदत्तान्नं तत्कुलीनैश्च बान्धवैः ।। ५६.
मासं श्राद्धभुजस्तृप्ति लभन्ते सोमलौकिकाः। एते मनुष्याः पितरो मासि श्राद्ध भुजस्तु ते ।। ५६.
तेभ्योऽपरे तु ये चान्ये सङ्कीर्णाः कर्मयोनिषु। भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ।। ५६.
भिन्नदेहा दुरात्मनः प्रेतभूता यमक्षये। स्वकर्माण्येव शोचन्ति यातनास्थानमागताः ।। ५६.
दीर्घायुषोऽतिशुष्काश्च विवर्णाश्च विवाससः। क्षुत्पिपासापरीताश्च विद्रवन्ति इतस्ततः ।। ५६.
सरित्सरस्तडागानि वापिश्चैव जलेप्सवः। परान्नानि च लिप्सन्ते कम्पमानास्ततस्ततः ।। ५६.
स्थानेषु पाच्यमानाश्च यातायातेषु तेषु वै। शाल्मलौ वैतरण्याञ्च कुम्भीपाकेषु तेषु च ।। ५६.
करम्भवालुकायाञ्च असिपत्रवने तथा। शिलासम्पेषणे चैव पात्यमानाः स्वकर्मभिः ।। ५६.
तत्र स्थानानि तेषां वै दुःखानामप्यनाकवत्। तेषां लोकान्तरस्थानां विविधैर्नामगोत्रतः ।। ५६.
भूम्यापसव्यदर्भेषु दत्त्वा पिण्डत्रयन्तु वै। पति तांस्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठिताः ।। ५६.
अप्राप्ता यातनास्थानं सृष्टा ये भुवि पञ्चधा। पश्चादिस्थावरान्तेषु भूतानां तेषु कर्मसु ।। ५६.
नानारूपासु जातीषु तिर्यग्योनिषु चातिषु। यदाहारा भवन्त्येते तासु तास्विह योनिषु। तस्मिस्तस्मिंस्तदाहारं श्राद्धदत्तोपतिष्ठति ।। ५६.
काले न्यायागतं पात्रं विधिना प्रतिपादितम्। प्राप्नोत्यन्नं यथा दत्तं बन्धुर्यत्रावतिष्ठते ।। ५६.
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्। तथा श्राद्धे तदिष्टानां मन्त्रः प्रापयते पितॄन् ।। ५६.
एवं ह्यविकलं श्राद्धं श्राद्धदत्तन्तु मन्त्रतः। सनत्कुमारः प्रोवाच पश्यन् दिव्येन चक्षुषा। गतागतिज्ञः प्रेतानां मन्त्रः प्रापयते पितॄन् ।। ५६.
बह्वीकास्वोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः। कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्राय शर्वरी ।। ५६.