व्यतीपाते स्थिते सूर्ये लेसोर्द्धन्तु युगान्तरे। युगान्तरोदिते चैव लेखोर्द्धं शशिनः क्रमात् ।। ५६.
पौर्णमासे व्यतीपाते यदीक्षेते परस्परम्। यस्मिन्काले स सीमान्ते स व्यतीपात एव तु ।। ५६.
कालं सूर्यस्य निर्द्देशं दृष्ट्वा सङ्ख्या तु सर्पति। स वै पथं क्रियाकालः कालात्सद्यो विधीयते ।। ५६.
पूर्णेन्दोः पूर्णपक्षे तु रात्रिसन्धिषु पूर्णिमा। यस्मात्तामनुपश्यन्ति पितरो दैवतैः सह। तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ।। ५६.
अत्यर्थं भ्राजते यस्मात् पौर्णमास्यान्निशाकरः। रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ।। ५६.
अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ। एकां पञ्चदशीं रात्रिममावास्या ततः स्मृता ।। ५६.
ततोऽपरस्य तैर्व्यक्तः पौर्णमास्यां निशाकरः। यदीक्षते व्यतीपाते दिवा पूर्णे परस्परम्। चन्द्रार्कावपराह्ने तु पूर्णात्मानौ तु पूर्णिमा ।। ५६.
विच्छिन्नां ताममावास्यां पश्यतश्च समागतौ। अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते ।। ५६.
द्वौ द्वौ लवावमावास्यां यः कालः पर्वसन्धिषु। द्वाक्षरं कुहुमात्रं तु एवं कालस्तु स स्मृतः। नष्टचन्द्रा प्यमावास्या मध्यसूर्येण सङ्गता ।। ५६.
दिवसार्द्धेन रात्र्यर्द्धं सूर्यं प्राप्य तु चन्द्रमाः. सूर्येण सहसा मुक्तिं गत्वा प्रातस्तनोत्सवौ । द्वौ कालौ सङ्गमश्चैव मध्याह्ने निष्पतेद्रविः ।। ५६.
प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात्। निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ।। ५६.
स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया। एतदृतुमुखं ज्ञेयममावास्यास्य पर्वणः ।। ५६.
दिवा पर्वण्यमावास्यां क्षीणेन्दौ बहुले तु वै। तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः। गृह्यते वै दिवा ह्यस्मादमावास्यां दिविक्षयैः ।। ५६.
कलानामपि वै तासां बहुमान्याजडात्मकैः। तिथीनां नाम धेयानि विद्वद्भिः संज्ञितानि वै ।। ५६.
दर्शयेतामथान्योन्यं सूर्याचन्द्रमसावुभौ । निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ।। ५६.
द्विलवेन ह्यहो रात्रं भास्करं स्पृशते शशी। स तदा ह्याहुतेः कालो दर्शस्य च वषट्क्रिया ।। ५६.
कुहेति कोकिरेनोक्तो यः कालः परिचिह्नितः। तत्कालसंज्ञिता यस्मादमावास्या कुहुः स्मृता ।। ५६.
सिनीवालीप्रमाणेन क्षीणशेषो निशाकरः। अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ।। ५६.
पर्वणः पर्वकालस्तु तुल्यो वै तु वषट्क्रिया। चन्द्रसूर्यव्यतीपाते उभे ते पूर्णिमे स्मृते ।। ५६.
प्रतिपत्पञ्चदश्योश्च पर्वकालो द्विमात्रकः। कालः कुहुसिनीवाल्योः समुद्रो द्विलवः स्मृतः ।। ५६.
अर्काग्निमण्डले सोमे पर्वकालः कलाश्रयः। एवं स शुक्रपक्षो वै रजन्याः पर्वसन्धिषु ।। ५६.
सम्पूर्णमण्डलः श्रीमांश्चन्द्रमा उपरज्यते। यस्मादाप्यायते सोमः पञ्चदश्यान्तु पूर्णिमा ।। ५६.
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्। तस्मात् कला पञ्चदशी सोमे नास्ति तु षोडशी। तस्मात्सोमस्य भवति पञ्चदश्यां महाक्षयः ।। ५६.
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः। आर्त्तवा ऋतवो यस्मात्ते देवा भावयन्ति च ।। ५६.
अतः पितॄन् प्रवक्ष्यामि मासश्राद्धभुजस्तु ये। तेषां गतिञ्च सत्त्वञ्च गतिं श्राद्धस्य चैव हि ।। ५६.
न मृतानां गतिः शक्या विज्ञातुं पुनरागतिः। तपसापि प्रसिद्धेन किं पुनर्मांसचक्षुषा ।। ५६.
श्राद्धदेवान् पिदॄनेतान् पितरो लौकिकाः स्मृताः। देवाः सौम्याश्च यज्वानः सर्वे चैव ह्ययोनिजाः ।। ५६.
देवास्ते पितरः सर्वे देवास्तान् भावयन्त्युत। मनुष्याः पितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः ।। ५६.
पिता पितामहश्चैव तथैव प्रपितामहः। यज्वानो ये तु सोमे न सोमवन्तस्तु ते स्मृताः ।। ५६.
ये यज्वानः स्मृतास्तेषां ते वै बर्हिषदः स्मृताः। कर्मस्वेतेषु युक्तास्ते तृप्यन्त्यादेहसम्भवात् ।। ५६.