यथा पुरूरवाश्चैल तर्पयामास वै पितॄन्। एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ।। ५६.
यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ। अमावास्यान्निवसत एकरात्रैकमण्डले ।। ५६.
स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ। अमावस्याममावास्यां मातामहपितामहौ। अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्ष्यते ।। ५६.
प्रसीदमानात् सोमाच्च पित्रर्थं तत्परिस्रवात्। ऐलः पुरूरवा विद्वान् मासि मासि प्रयत्नतः। उवास्ते पितृमन्तं तं ससोमं स दिवास्थितः ।। ५६.
द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः। सिनीवालीप्रमाणेन सिनीवालीमुपासकः ।। ५६.
कुहूमात्रां कलाञ्चैव ज्ञात्वोपास्ते कुहुं पुनः। स तदा भानुमत्येक कालावेक्षी प्रपश्यति ।। ५६.
सुधामृतं कुतः सोमात् प्रस्रवेन्मासतृप्तये। दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ।। ५६.
कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांशुभिः। सद्यः पक्षरता तेन सौम्येन मधुना च सः ।। ५६.
निर्वापणार्थं दत्तेन पित्रेण विधिना नृपः। सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन्। सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ।। ५६.
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः। जज्ञिरे ह्यृतवस्तस्मादृतुभ्यश्चार्त्तवाश्च ये । ५६.
आर्त्तवा ह्यर्द्धमासाख्याः पितरो ह्यब्दसूनवः। ऋतुः पितामहा मासा ऋतुश्चैवाभ्दसूनवः ।। ५६.
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः। सौम्यास्तु सौम्यजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ।। ५६.
उपहूताः स्मृताः देवाः सोमजाः सोमपास्तथा। आज्यपास्तु स्मृताः काव्यास्तृप्यन्ति पितृजातयः ।। ५६.
काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा। गृहस्था ये च यज्वाना ऋतुर्बर्हिषदो ध्रुवम् ।। ५६.
गृहस्थाश्चापि यज्वाना अग्निष्वात्तास्तथार्त्तवाः। अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ।। ५६.
एषां संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः। सोम ईद्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ।। ५६.
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः। लेखाश्वैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ।। ५६.
एते पिबन्त्यमावास्यां मासि मासि सुधां दिवि । तांस्तेन तर्पयामास यावदासीत् पुरूरवाः ।। ५६.
यस्मात् प्रस्रवते सोमान्मासि मासि निबोधत। तस्मात् सुधामृतं द्वै पितॄणां सोमपायिनाम् ।। ५६.
एवं तदमृतं सौम्यं सुधा च मधु चैव ह । कृष्णपक्षे यथा चेन्दोः कलाः पञ्चदश क्रमात् ।। ५६.
पिबन्त्यम्बुमयीर्दे वास्त्रयस्त्रिंशत्तु छन्दजाः। पीत्वा च मासं गच्छन्ति चतुर्द्दश्यां सुधामृतम् ।। ५६.
इत्येवं पीयमानस्तु दैवतैश्च निशाकरः। समागच्छदमावास्यां भागे पञ्चदशे स्थितः ।। ५६.
सुषुम्नाप्यायितञ्चैव अमावास्यां यथाक्रमम्। पिबन्ति द्विकलं कालं पितरस्ते सुधामृतम् ।। ५६.
ततः पीतक्षये सोमे सूर्योऽसावेकरश्मिना। आप्याययत्सुषुम्नेन पितॄणां सोमपायिनाम् ।। ५६.
निःशेषायां कलायान्तु सोममाप्याययत् पुनः। सुषुम्नाप्यायमानस्य भागं भाग महःक्रमात्। कलाः क्षीयन्ति ताः कृष्णाः शुक्लाश्चाप्याययन्ति च ।। ५६.
एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः। दृश्यते पौर्णमास्यां वै शुक्लः सम्पूर्णमण्डलः। संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ।। ५६.
इत्येष पितृमान् सोमः स्मृत इद्वत्सरः क्रमात् । क्रान्तः पंचदशैः सार्द्धं सुधा मृतपरिस्रवैः ।। ५६.
अतः पर्वाणि वक्ष्यामि पर्वणां सन्धयस्तथा। ग्रन्थिमन्ति यथा पर्वाणीक्षुवेण्वोर्भवन्त्युत ।। ५६.
तथार्द्धमासपर्वाणि शुक्लकृष्णानि वै विदुः। पूर्णामावास्ययोर्भेदैर्ग्रन्थिर्या सन्धयश्च वै । अर्द्धमासास्तु पर्वाणि तृतीयाप्रभृतीनि तु ।। ५६.
अग्नयाधानक्रिया यस्मात् क्रियते पर्वसन्धिषु। सायाह्ने प्रतिपच्चैव स कालः पौर्णमासिकः ।। ५६.