एतद्धि रूपमज्ञातमव्यक्तं शिवसंज्ञितम्। अचिन्त्यं तददृश्यञ्च पश्यन्ति ज्ञानचक्षुषः ।। ५५.
तस्मै देवाधिपत्याय नमस्कारं प्रयुङ्क्त ह। येन सूक्ष्ममचिन्त्यञ्च पश्यन्ति ज्ञानचक्षुषः ।। ५५.
महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते। सुरासुरवर श्रेष्ठ मनोहंस नमोऽस्तु ते ।। ५५.
एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम्। नमस्कारं प्रयुञ्जानाः शङ्कराय महात्मने ।। ५५.
इमं स्तवं पठेद्यस्तु ईश्वरस्य महात्मनः। कामांश्च लभते सर्वान् पापेभ्यस्तु विमुच्यते ।। ५५.
एतत्सर्वं सदा तेन विष्णुना प्रभविष्णुना। महादेवप्रसादेन उक्तं ब्रह्म सनातनम्। एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ।। ५५.
अगात्कथममावास्यां मासि मासि दिवं नृपः। ऐलः पुरूरवाः सूत कथं वाऽतर्पयत् पितॄन् ।। ५६.
तस्य चाहं प्रवक्ष्यामि प्रभावं शांशपायन। ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ।। ५६.
अपांसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः। ह्रासवृद्धी पितृमतः पक्षस्य च विनिर्णयः ।। ५६.
सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा। कव्याग्नेश्चात्तसोमानां पितॄणाञ्चैव दर्शनम् ।। ५६.
यथा पुरूरवाश्चैल तर्पयामास वै पितॄन्। एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ।। ५६.
यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ। अमावास्यान्निवसत एकरात्रैकमण्डले ।। ५६.
स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ। अमावस्याममावास्यां मातामहपितामहौ। अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्ष्यते ।। ५६.
प्रसीदमानात् सोमाच्च पित्रर्थं तत्परिस्रवात्। ऐलः पुरूरवा विद्वान् मासि मासि प्रयत्नतः। उवास्ते पितृमन्तं तं ससोमं स दिवास्थितः ।। ५६.
द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः। सिनीवालीप्रमाणेन सिनीवालीमुपासकः ।। ५६.
कुहूमात्रां कलाञ्चैव ज्ञात्वोपास्ते कुहुं पुनः। स तदा भानुमत्येक कालावेक्षी प्रपश्यति ।। ५६.
सुधामृतं कुतः सोमात् प्रस्रवेन्मासतृप्तये। दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ।। ५६.
कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांशुभिः। सद्यः पक्षरता तेन सौम्येन मधुना च सः ।। ५६.
निर्वापणार्थं दत्तेन पित्रेण विधिना नृपः। सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन्। सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ।। ५६.
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः। जज्ञिरे ह्यृतवस्तस्मादृतुभ्यश्चार्त्तवाश्च ये । ५६.
आर्त्तवा ह्यर्द्धमासाख्याः पितरो ह्यब्दसूनवः। ऋतुः पितामहा मासा ऋतुश्चैवाभ्दसूनवः ।। ५६.
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः। सौम्यास्तु सौम्यजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ।। ५६.
उपहूताः स्मृताः देवाः सोमजाः सोमपास्तथा। आज्यपास्तु स्मृताः काव्यास्तृप्यन्ति पितृजातयः ।। ५६.
काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा। गृहस्था ये च यज्वाना ऋतुर्बर्हिषदो ध्रुवम् ।। ५६.
गृहस्थाश्चापि यज्वाना अग्निष्वात्तास्तथार्त्तवाः। अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ।। ५६.
एषां संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः। सोम ईद्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ।। ५६.
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः। लेखाश्वैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ।। ५६.
एते पिबन्त्यमावास्यां मासि मासि सुधां दिवि । तांस्तेन तर्पयामास यावदासीत् पुरूरवाः ।। ५६.
यस्मात् प्रस्रवते सोमान्मासि मासि निबोधत। तस्मात् सुधामृतं द्वै पितॄणां सोमपायिनाम् ।। ५६.
एवं तदमृतं सौम्यं सुधा च मधु चैव ह । कृष्णपक्षे यथा चेन्दोः कलाः पञ्चदश क्रमात् ।। ५६.