एकग्रीवस्त्वेकजटो नानाभूषण्भूषितः। नानाचित्रविचित्राङ्गो नानामाल्यानुलेपनः ।। ५५.
पिनाकपाणिर्भगवान् वृषभासनशूलधृक् । दण्डकृष्णाजिनधरः कपाली घोररूपधृक् ।। ५५.
व्यालयज्ञोपवीती च सुराणामभयङ्करः। दुन्दुभिस्वननिर्घोषपर्जन्यनिनदोपमः। मुक्तो हासस्तदा तेन नभः सर्वमपूरयत् ।। ५५.
तेन शब्देन महता वयं भीता महात्मनः। तदोवाच महायोगी प्रीतोऽहं सुरसत्तमौ ।। ५५.
पश्येताञ्च महामायां भयं सर्वं प्रमुच्यताम् । युवां प्रसूतौ गात्रेषु मम पूर्वसनातनौ ।। ५५.
अयं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः। वामो बाहुश्च मे विष्णुर्नित्यं युद्धेषु तिष्ठति। प्रीतोऽहं युवयोः सम्यग्वरं दझि यथेप्सितम् ।। ५५.
ततः प्रहृष्टमनसौ प्रणतौ पादयोः पुनः । ऊचतुश्च महात्मानौ पुनरेव तदानघौ ।। ५५.
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ। भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर ।। ५५.
एवमस्तु महाभागौ सृजतां विविधाः प्रजाः। एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।। ५५.
एवमेष मयोक्तो वः प्रभावस्तस्य योगिनः। तेन सर्वमिदं सृष्टं हेतुमात्रा वयन्त्विह ।। ५५.
एतद्धि रूपमज्ञातमव्यक्तं शिवसंज्ञितम्। अचिन्त्यं तददृश्यञ्च पश्यन्ति ज्ञानचक्षुषः ।। ५५.
तस्मै देवाधिपत्याय नमस्कारं प्रयुङ्क्त ह। येन सूक्ष्ममचिन्त्यञ्च पश्यन्ति ज्ञानचक्षुषः ।। ५५.
महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते। सुरासुरवर श्रेष्ठ मनोहंस नमोऽस्तु ते ।। ५५.
एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम्। नमस्कारं प्रयुञ्जानाः शङ्कराय महात्मने ।। ५५.
इमं स्तवं पठेद्यस्तु ईश्वरस्य महात्मनः। कामांश्च लभते सर्वान् पापेभ्यस्तु विमुच्यते ।। ५५.
एतत्सर्वं सदा तेन विष्णुना प्रभविष्णुना। महादेवप्रसादेन उक्तं ब्रह्म सनातनम्। एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ।। ५५.
अगात्कथममावास्यां मासि मासि दिवं नृपः। ऐलः पुरूरवाः सूत कथं वाऽतर्पयत् पितॄन् ।। ५६.
तस्य चाहं प्रवक्ष्यामि प्रभावं शांशपायन। ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ।। ५६.
अपांसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः। ह्रासवृद्धी पितृमतः पक्षस्य च विनिर्णयः ।। ५६.
सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा। कव्याग्नेश्चात्तसोमानां पितॄणाञ्चैव दर्शनम् ।। ५६.
यथा पुरूरवाश्चैल तर्पयामास वै पितॄन्। एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ।। ५६.
यदा तु चन्द्रसूर्यौ तौ नक्षत्रेण समागतौ। अमावास्यान्निवसत एकरात्रैकमण्डले ।। ५६.
स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ। अमावस्याममावास्यां मातामहपितामहौ। अभिवाद्य तदा तत्र कालापेक्षः प्रतीक्ष्यते ।। ५६.
प्रसीदमानात् सोमाच्च पित्रर्थं तत्परिस्रवात्। ऐलः पुरूरवा विद्वान् मासि मासि प्रयत्नतः। उवास्ते पितृमन्तं तं ससोमं स दिवास्थितः ।। ५६.
द्विलवं कुहुमात्रं तु ते उभे तु विचार्य सः। सिनीवालीप्रमाणेन सिनीवालीमुपासकः ।। ५६.
कुहूमात्रां कलाञ्चैव ज्ञात्वोपास्ते कुहुं पुनः। स तदा भानुमत्येक कालावेक्षी प्रपश्यति ।। ५६.
सुधामृतं कुतः सोमात् प्रस्रवेन्मासतृप्तये। दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ।। ५६.
कृष्णपक्षे तदा पीत्वा दुह्यमानं तथांशुभिः। सद्यः पक्षरता तेन सौम्येन मधुना च सः ।। ५६.
निर्वापणार्थं दत्तेन पित्रेण विधिना नृपः। सुधामृतेन राजेन्द्रस्तर्पयामास वै पितॄन्। सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ।। ५६.
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः। जज्ञिरे ह्यृतवस्तस्मादृतुभ्यश्चार्त्तवाश्च ये । ५६.