अपरेणोत्कलाच्चैव ह्यावेदिभ्यश्च पञ्चमम्। एकभूतात्मनोस्यैतद्वामनस्य वनं स्मृतम् ॥ ८.
अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु। यमस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ॥ ८.
भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान् प्रभोः। स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् ॥ ८.
लम्बकर्णान् प्रलम्बोष्ठान् लम्बजिह्वास्तनोदरान्। एकरूपान् द्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥ ८.
सरोवरसमुद्रादिनदीपुलिनवासिनः। कृष्णान् गौरांश्च नीलांश्च श्वेतांश्च लोहितारुणान् ॥ ८.
बभ्रून् वै शबलान् धूम्रान् कद्रून् रासभदारूणान्। मुञ्जकेशान् हृषीकेशान् सर्पयजोपवीतिनः ॥ ८.
विसृष्टाक्षान् विरूपाक्षान् कृशाक्षानेकलोचनान्। बहुशीर्षान् विशीर्षांश्च एकशीर्षांश्च शीर्षकान् ॥ ८.
चण्डांश्च विकटांश्चैव विरोमान् रोमशांस्तथा। अन्धांस्व जटिलांश्चैव कुञ्जान् हेषकवामनान् ॥ ८.
सरोवरसमुद्रादिनदीपुलिनसेविनः। एककर्णान् महाकर्णान् शङ्कुकर्णानकर्णिकान् ॥ ८.
दंष्ट्रिणो नखिनश्चैव निर्द्दन्तांश्च द्विजिह्वकान्। एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥ ८.
एकपादान् द्विपादांश्च त्रिपादान् बहुपादकान् । महायोगान् महासत्त्वान् सुतपक्वान् महाबलान् ॥ ८.
सर्वत्रगानप्रतिघान् ब्रह्मज्ञान् कामरूपिणः । घोरान् क्रूरांश्च मेध्यांश्च शिवान् पुण्यान् सवादिनः ॥ ८.
कुशहस्तान् महाजिह्वान् महाकर्णान्महाननान्। हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ॥ ८.
धन्विनो मुद्गरधरानसिशूलधरांस्तथा। दीप्तास्यान् दीप्तनेत्रांश्च चित्र माल्यानुलेषनान् ॥ ८.
अन्नादान् पिशितादांश्च बहुरूपान् सुरूपकान् । रात्रिसन्ध्याचरान् घोरान् व्कचित्सौम्यान् दिवाचरान्। नक्तञ्चरान् सुदुष्प्रेक्ष्यान् घोरांस्तान् वै निशाचरान् ॥ ८.
परत्वे च भयं दैव सर्वे ते गतमानसाः। नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्द्ध्वरेतसः ॥ ८.
शतन्तानि सहस्राणि भूतानामात्मयोगिनाम्। एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्त्तिताः ॥ ८.
कपिशा चैव कूष्माण्डीकूष्माण्डाञ्जज्ञिरे पुनः । मिथुनानि पिशाचानां वर्णेन कपिशेन च। कपिशत्वात् पिशाचास्ते सर्वे च पिशिताशनाः ॥ ८.
युग्मानि षोडशान्यानि वर्त्तमानास्तदन्वयाः। नामतस्तान् प्रवक्ष्यामि पुरुषादांस्तदन्वयान् ॥ ८.
छगलश्छगली चैव वक्रो वक्रमुखी तथा। षोडशानां गणाश्चैव सूची सूचीमुखस्तथा ॥ ८.
सुम्भपा त्रश्च कुमभी च वज्रदंष्ट्रश्च दुन्दुभिः। उपचारोपचारश्च उलूखल उलूखली ॥ ८.
अनर्कश्च अनर्का च कुखण्डश्च कुखण्डिका। पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥ ८.
नितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा। छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा। षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ॥ ८.
अजामुखा वक्रमुखाः पूरिणः स्कन्दिनस्तथा। विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ॥ ८.
उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः। पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ॥ ८.
सूचीमुखोच्छेषणादाः कुलान्येतानि षोडश। इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ॥ ८.
पिशाचास्ते तु विज्ञेयाः सुकल्पा इति जज्ञिरे। बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम्। अतस्तेषां पिशाचानां लक्षणञ्च निबोधत ॥ ८.
सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा। तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ॥ ८.
अकेशका ह्यरोमाणस्त्वग्वसाश्चर्मवाससः। कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ॥ ८.
वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा। ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ॥ ८.