अस्य लिङ्गस्य योऽन्तं वै गच्छते मन्त्रकारणम्। घोर रूपिणमत्यर्थं भिन्दन्तमिव रोदसी ।। ५५.
ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वतन्द्रितः। अन्तमस्य विजानीमो लिङ्गस्य तु महात्मनः ।। ५५.
अहमूर्द्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते। तदा तौ समयं कृत्वा गतावूर्द्ध्वमधश्च ह ।। ५५.
ततो वर्षसहस्रन्तु अहं पुनरधो गतः। न च पश्यामि तस्यान्तं भीतश्चाहं न संशयः ।। ५५.
तथा ब्रह्मा च श्रान्तश्च न चान्तन्तस्य पश्यति। समागतो मया सार्द्धं तत्रैव च महाम्भसि ।। ५५.
ततो विस्मयमापन्नावुभौ तस्य महात्मनः ५५.
ततो ध्यानगतन्तत्र ईश्वरं सर्वतोमुखम्। प्रभवं निधऩञ्चैव लोकानां प्रभुमव्ययम् ।। ५५.
ब्रह्माञ्जलिपुटो भूत्वा तस्मै शर्वाय शूलिने। महाभैरवनादाय भीमरूपाय दंष्ट्रिणे। अव्यक्ताय महान्ताय नमस्कारं प्रकुर्महे ।। ५५.
नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महांश्च। नमोऽस्तु ते शाश्वत सिद्धयोने नमोऽस्तु ते सर्वजगत्प्रतिष्ठ ।। ५५.
परमेष्ठी परं ब्रह्म अक्षरं परमं पदम्। श्रेष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ।। ५५.
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परं पदम्। स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ।। ५५.
स्वधाकारश्च जाप्यश्च व्रतानि नियमास्तथा। वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ।। ५५.
आकाशस्य च शब्दस्त्वं भूतानां प्रभवाव्ययम्। भूमेर्गन्धो रसश्वापां तेजोरूपं महेश्वर ।। ५५.
वायोः रुपर्शश्च देवश्च वपुश्चन्द्रमसस्तथा । बुधो ज्ञानञ्च देवेश प्रकृतौ बीजमेव च ।। ५५.
त्वं कर्त्ता सर्वभूतानां कालो मृत्युर्यमोऽन्तकः। त्वं धारयसि लोकास्त्रींस्त्वमेव सृजसि प्रभो ।। ५५.
पूर्वेण वदनेन त्वमिन्द्रत्वञ्च प्रकाशसे। दक्षिणेन च वक्रेण लोकान् संक्षीयसे प्रभो ।। ५५.
पश्चिमेन तु वक्रेण वरुणत्वं करोषि वै। उत्तरेण तु वक्रेण सौम्यत्वञ्च व्यवस्थितम् ।। ५५.
राजसे बहुधा देव लोकानां प्रभवाव्ययः। आदित्या वसवो रुद्रा मरुतश्चाश्विनीसुतौ ।। ५५.
साध्या विद्याधरा नागाश्वारणाश्च तपोधनाः. वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ।। ५५.
त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः। उमा सीता सिनी वाली कुहूर्गायत्रिरेव च ।। ५५.
लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा क्षान्तिर्वपुः स्वधा। तुष्टिः पुष्ठिः क्रिया चैव वाचां देवी सरस्वती। त्वत्तः प्रसूता देवेश सन्ध्या रात्रिस्तथैव च ।। ५५.
सूर्यायुतानामयुतप्रभा च नमोऽस्तु ते चन्द्रसहस्रगोचर। नमोऽस्तु ते पर्वतरूपधारिणे नमोऽस्तु ते सर्वगुणाकराय ।। ५५.
नमोऽस्तु ते पट्टिशरूपधारिणे नमोऽस्तु ते चर्मविभूतिधारिणे । नमोऽस्तु ते रुद्रपिनाकपाणये नमोऽस्तु ते सायकचक्रधारिणे ।। ५५.
नमोऽस्तु ते भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन। नमोऽस्तु ते देव हिरण्यवाससे नमोऽस्तु ते देव हिरण्यबाहवे ।। ५५.
नमोऽस्तु ते देव हिरण्यरूप नमोऽस्तु ते देव हिरण्यनाभ। नमोऽस्तु ते नेत्रसहस्रचित्र नमोऽस्तु ते देव हिरण्यरेतः ।। ५५.
नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यगर्भ। नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते देव हिरण्यदायिने ।। ५५.
नमोऽस्तु ते देव हिरण्यमालिने नमोऽस्तु ते देव हिरण्यवाहिने। नमोऽस्तु ते देव हिरण्यचीर नमोऽस्तु ते भैरवनादनादिने ।। ५५.
नमोऽस्तु ते भैरववेगवेग नमोऽस्तु ते शङ्कर नीलकण्ठ। मनोऽस्तु ते दिव्यसहस्रबाहो नमोऽस्तु ते नर्त्तनवादनप्रिय ।। ५५.
एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः। भाति देवो महायोगी सूर्यकोटिसमप्रभः ।। ५५.
अभिभाष्यस्तदा हृष्टो महादेवो महेश्वरः। वक्रकोटिसहस्रेण ग्रसमान इवापरम् ।। ५५.