एतस्मिन्नन्तरे दूरात् पश्यामि ह्यमितप्रभम्। शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ।। ५५.
चतुर्वक्रं महा योगं पुरुषं काञ्चनप्रभम्। कृष्णाजिनधरं देवं कमण्डलुविभूषितम्। निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ।। ५५.
ततो मामब्रवीद्ब्रह्मा सर्वलोक नमस्कृतः। कस्त्वं कुतो वा किञ्चेह तिष्ठसे वद मे विभो ।। ५५.
अहं कर्त्ताऽस्मि लोकानां स्वयम्बूर्विश्वतोमुखः। एवमुक्तस्तदा देन ब्रह्मणाहमुवाच तम् ।। ५५.
अहं कर्त्ता च लोकानां संहर्त्ता च पुनः पुनः। एवं सम्भाषमाणाभ्यां परस्परजयैषिणाम्। उत्तरां दिशमास्थाय ज्वाला दृष्टाप्यधिष्ठिता ।। ५५.
ज्वालान्ततस्तामालोक्य विस्मित्तौ च तदानयोः । तेजसा चैव तेनाथ सर्वं ज्योतिःकृतं जलम् ।। ५५.
वर्द्धमाने तदा वह्नावत्यन्तपरमाद्भुते। अतिदुद्राव तां ज्वालां ब्रह्मा चाहञ्च सत्वरः ।। ५५.
दिवं भूमिञ्च विष्टभ्य तिष्ठन्तं ज्वालमण्डलम्। तस्य ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ।। ५५.
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीपितम्। न च तत्काञ्चनं मध्ये न शैलं न च राजतम् ।। ५५.
अनिर्द्देश्यमचिन्त्यञ्च लक्ष्यालक्ष्यं पुनः पुनः। महौजसं महाघोरं वर्द्धमानं भृशं तदा। ज्वालामालायतं न्यस्तं सर्वभूतभयङ्करम् ।। ५५.
अस्य लिङ्गस्य योऽन्तं वै गच्छते मन्त्रकारणम्। घोर रूपिणमत्यर्थं भिन्दन्तमिव रोदसी ।। ५५.
ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वतन्द्रितः। अन्तमस्य विजानीमो लिङ्गस्य तु महात्मनः ।। ५५.
अहमूर्द्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते। तदा तौ समयं कृत्वा गतावूर्द्ध्वमधश्च ह ।। ५५.
ततो वर्षसहस्रन्तु अहं पुनरधो गतः। न च पश्यामि तस्यान्तं भीतश्चाहं न संशयः ।। ५५.
तथा ब्रह्मा च श्रान्तश्च न चान्तन्तस्य पश्यति। समागतो मया सार्द्धं तत्रैव च महाम्भसि ।। ५५.
ततो विस्मयमापन्नावुभौ तस्य महात्मनः ५५.
ततो ध्यानगतन्तत्र ईश्वरं सर्वतोमुखम्। प्रभवं निधऩञ्चैव लोकानां प्रभुमव्ययम् ।। ५५.
ब्रह्माञ्जलिपुटो भूत्वा तस्मै शर्वाय शूलिने। महाभैरवनादाय भीमरूपाय दंष्ट्रिणे। अव्यक्ताय महान्ताय नमस्कारं प्रकुर्महे ।। ५५.
नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महांश्च। नमोऽस्तु ते शाश्वत सिद्धयोने नमोऽस्तु ते सर्वजगत्प्रतिष्ठ ।। ५५.
परमेष्ठी परं ब्रह्म अक्षरं परमं पदम्। श्रेष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ।। ५५.
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परं पदम्। स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ।। ५५.
स्वधाकारश्च जाप्यश्च व्रतानि नियमास्तथा। वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ।। ५५.
आकाशस्य च शब्दस्त्वं भूतानां प्रभवाव्ययम्। भूमेर्गन्धो रसश्वापां तेजोरूपं महेश्वर ।। ५५.
वायोः रुपर्शश्च देवश्च वपुश्चन्द्रमसस्तथा । बुधो ज्ञानञ्च देवेश प्रकृतौ बीजमेव च ।। ५५.
त्वं कर्त्ता सर्वभूतानां कालो मृत्युर्यमोऽन्तकः। त्वं धारयसि लोकास्त्रींस्त्वमेव सृजसि प्रभो ।। ५५.
पूर्वेण वदनेन त्वमिन्द्रत्वञ्च प्रकाशसे। दक्षिणेन च वक्रेण लोकान् संक्षीयसे प्रभो ।। ५५.
पश्चिमेन तु वक्रेण वरुणत्वं करोषि वै। उत्तरेण तु वक्रेण सौम्यत्वञ्च व्यवस्थितम् ।। ५५.
राजसे बहुधा देव लोकानां प्रभवाव्ययः। आदित्या वसवो रुद्रा मरुतश्चाश्विनीसुतौ ।। ५५.
साध्या विद्याधरा नागाश्वारणाश्च तपोधनाः. वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ।। ५५.
त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः। उमा सीता सिनी वाली कुहूर्गायत्रिरेव च ।। ५५.