विचरत्यचिरात् सर्वान् सर्वलोकान्ममाज्ञया । न हन्यते गतिस्तस्य अनिलस्य यथाम्बरे। मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवम् ।। ५४.
मम भक्ता वरारोहे ये च श्रृण्वन्ति मानवाः। तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ।। ५४.
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम्। वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ।। ५४.
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्। गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम्। नष्टञ्च लभते सर्वमिहलोके परत्र च ।। ५४.
गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम्। तत् फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ।। ५४.
पादं वा यदि वाप्यर्द्धं श्लोकं श्लोकार्द्धमेव वा। यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ।। ५४.
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्ध मूर्द्धजः। वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ।। ५४.
क्रान्तं मया पापहरं महापदं निवेद्य तेभ्यः प्रददौ प्रभञ्जनः। अधीत्य सर्वं त्वखिलं सुलक्षणं जगाम आदित्यपथं द्विजोत्तमः ।। ५४.
गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः। श्रोतुमिच्छामहे सम्यगाश्चर्यं गुणविस्तरम् ।। ५५.
अत्राप्युदाहरन्तीममिति हासं पुरातनम् । महादेवस्य माहात्म्यं विभुत्वञ्च महात्मनः ।। ५५.
पूर्वं त्रैलोक्यविजये विष्णुना समुदाहृतम्। बलिं बद्ध्वा महौजास्तु त्रैलोक्याधि पतिः पुरा ।। ५५.
प्रणष्टेषु च दैत्येषु प्रहृष्टे च शचीपतौ। अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सवासवाः ।। ५५.
यत्रास्ते विश्वरूपात्मा क्षीरोदस्य समी पतः। सिद्धब्रह्मर्षयो यक्षा गन्धर्वाप्सरसाङ्गणाः ।। ५५.
नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः। अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ।। ५५.
त्वं धाता त्वञ्च कर्त्ताऽस्य त्वं लोकान् सृजसि प्रभो। त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम्। असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ।। ५५.
एव मुक्तः सुरैर्विष्णुः सिद्धैश्च परमर्षिभिः। प्रत्युवाच ततो देवान् सर्वांस्तान् पुरुषोत्तमः ।। ५५.
श्रूयतामभिधास्यामि कारणं सुरसत्तमाः। यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ।। ५५.
येन हि ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया। तस्यैव च प्रसादेन आदौ सिद्धत्वमागतम् ।। ५५.
पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रासिते मया। उदरस्थेषु भूतेषु लोकेऽहं शयितस्तदा ।। ५५.
सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात्। शङ्खचक्रगदा पाणिः शयितो विमलेऽम्भसि ।। ५५.
एतस्मिन्नन्तरे दूरात् पश्यामि ह्यमितप्रभम्। शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ।। ५५.
चतुर्वक्रं महा योगं पुरुषं काञ्चनप्रभम्। कृष्णाजिनधरं देवं कमण्डलुविभूषितम्। निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ।। ५५.
ततो मामब्रवीद्ब्रह्मा सर्वलोक नमस्कृतः। कस्त्वं कुतो वा किञ्चेह तिष्ठसे वद मे विभो ।। ५५.
अहं कर्त्ताऽस्मि लोकानां स्वयम्बूर्विश्वतोमुखः। एवमुक्तस्तदा देन ब्रह्मणाहमुवाच तम् ।। ५५.
अहं कर्त्ता च लोकानां संहर्त्ता च पुनः पुनः। एवं सम्भाषमाणाभ्यां परस्परजयैषिणाम्। उत्तरां दिशमास्थाय ज्वाला दृष्टाप्यधिष्ठिता ।। ५५.
ज्वालान्ततस्तामालोक्य विस्मित्तौ च तदानयोः । तेजसा चैव तेनाथ सर्वं ज्योतिःकृतं जलम् ।। ५५.
वर्द्धमाने तदा वह्नावत्यन्तपरमाद्भुते। अतिदुद्राव तां ज्वालां ब्रह्मा चाहञ्च सत्वरः ।। ५५.
दिवं भूमिञ्च विष्टभ्य तिष्ठन्तं ज्वालमण्डलम्। तस्य ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ।। ५५.
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीपितम्। न च तत्काञ्चनं मध्ये न शैलं न च राजतम् ।। ५५.
अनिर्द्देश्यमचिन्त्यञ्च लक्ष्यालक्ष्यं पुनः पुनः। महौजसं महाघोरं वर्द्धमानं भृशं तदा। ज्वालामालायतं न्यस्तं सर्वभूतभयङ्करम् ।। ५५.