एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः। बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ।। ५४.
ततोऽहं पातुमारब्धो विषमन्तकसन्निभम्। पिबतो मे महाघोरं विषं सुरभयङ्करम्। कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ।। ५४.
तंदृष्ट्वो त्पलपत्राभं कण्ठे सक्तमिवोरगम् । तक्षकं नागराजानं लेलिहानमिव स्थितम् ।। ५४.
अथोवाच महातेजा ब्रह्मा लोकपितामहः। शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ।। ५४.
ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे। पश्यतां देवसङ्गानां दैत्यानाञ्च वरानने ।। ५४.
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम्। धृतं कण्ठे विषं घोरं नीलकण्टस्ततो ह्यहम् ।। ५४.
तत् कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि। निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ।। ५४.
ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः। ऊचुः प्राञ्चलयो भूत्वा मत्तमातङ्गगामिनि ।। ५४.
अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तवैव। अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ।। ५४.
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्यु र्वरदस्त्वमेव। त्वमेव सूर्यो रजनीकरश्च त्वमेव भूमिः सलिलं त्वमेव ।। ५४.
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव। त्वमेव चादि र्निधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ।। ५४.
त्वमेव सूक्ष्मस्य परस्य सूक्ष्मस्त्वमेव वह्निः पवनस्त्वमेव। त्वमेव सर्वस्य चराचरस्य लोकस्य कर्त्ता प्रलये च गोप्ता ।। ५४.
इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्द्ना। गता विमानैरनिगृह्य वेगैर्महात्मनो मेरुमुपेत्य सर्वे ।। ५४.
इत्येतत्परमं गुह्यं पुण्यात्पुण्यमहत्तरम्। नीलकण्ठेति यत् प्रोक्तं विख्यातं लोकविश्रुतम् ।। ५४.
स्वयं स्वयम्भुवा प्रोक्तां पुण्यां पापप्रणाशनीम्। यस्तु धारयते नित्यमेनां ब्रह्मोद्भवां कथाम्। तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ।। ५४.
विषं तस्य वरारोहे स्थावरं जङ्गमन्तथा। गात्रं प्राप्य च सुश्रोणि क्षिप्रं तत् प्रतिहन्यते ।। ५४.
शमयत्यशुभं घोरं दुःस्वप्नञ्चापकर्षति। स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ।। ५४.
विवादे जयमाप्नोति युद्धे शूरत्वमेव च। गच्छतः क्षेममध्वानं गृहे च नित्यसम्पदः ।। ५४.
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने। नीलकण्ठो हरिच्छमश्रुः शशाङ्काङ्कितमूर्द्धजः ।। ५४.
त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक्। नन्धितुल्यबलः श्रीमान् नन्दितुल्यपराक्रमः ।। ५४.
विचरत्यचिरात् सर्वान् सर्वलोकान्ममाज्ञया । न हन्यते गतिस्तस्य अनिलस्य यथाम्बरे। मम तुल्यबलो भूत्वा तिष्ठत्याभूतसम्प्लवम् ।। ५४.
मम भक्ता वरारोहे ये च श्रृण्वन्ति मानवाः। तेषां गतिं प्रवक्ष्यामि इह लोके परत्र च ।। ५४.
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम्। वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् ।। ५४.
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्। गुर्विणी लभते पुत्रं कन्या विन्दति सत्पतिम्। नष्टञ्च लभते सर्वमिहलोके परत्र च ।। ५४.
गवां शतसहस्रस्य सम्यग्दत्तस्य यत् फलम्। तत् फलं भवति श्रुत्वा विभोर्दिव्यामिमां कथाम् ।। ५४.
पादं वा यदि वाप्यर्द्धं श्लोकं श्लोकार्द्धमेव वा। यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ।। ५४.
कथामिमां पुण्यफलादियुक्तां निवेद्य देव्याः शशिबद्ध मूर्द्धजः। वृषस्य पृष्ठेन सहोमया प्रभुर्जगाम किष्किन्धगुहां गुहप्रियः ।। ५४.
क्रान्तं मया पापहरं महापदं निवेद्य तेभ्यः प्रददौ प्रभञ्जनः। अधीत्य सर्वं त्वखिलं सुलक्षणं जगाम आदित्यपथं द्विजोत्तमः ।। ५४.
गुणकर्मप्रभावैश्च कोऽधिको वदतां वरः। श्रोतुमिच्छामहे सम्यगाश्चर्यं गुणविस्तरम् ।। ५५.
अत्राप्युदाहरन्तीममिति हासं पुरातनम् । महादेवस्य माहात्म्यं विभुत्वञ्च महात्मनः ।। ५५.