ज्ञात्वा तु भक्तिं मम देवदेवो गङ्गाजलाप्लावितकेशदेशः। सूक्ष्मोऽतियोगातिशयादचिन्त्यो न हि प्लुतो व्यक्तमुपैति चन्द्रः ।। ५४.
एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा। स्तुतोऽहं विविधैः स्तोत्रै र्वेदवेदाङ्गसम्भवैः ।। ५४.
ततः प्रीतो ह्यहं तस्मै ब्रह्मणे सुमहात्मने। ततोऽहं सूक्ष्मया वाचा पितामहमथाब्रुवम् ।। ५४.
भगवन् भूतभव्येश लोकनाथ जगत्पते। किं कार्ये ते मया ब्रह्मन् कर्त्तव्यं वद सुव्रत ।। ५४.
श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचाम्बुजेक्षणः । भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर ।। ५४.
सुरासुरैर्मथ्यमाने पयोधावम्बुजेक्षण। भगवन्मेघ सङ्काशं नीलजीमूतसन्निभम् ।। ५४.
प्रादुर्भूतं विषङ्घोरं संवर्त्ताग्निसमप्रभम्। कालमृत्युरिवोद्भूतं युगान्तादित्यवर्च्चसम् ।। ५४.
त्रैलोक्योत्सादि सूर्याभं विस्फुरन्तं समन्ततः। अग्रे समुत्थितं तस्मिन् विषङ्कालानलप्रभम् ।। ५४.
तं दृष्ट्वा तुं वयं सर्वे भीताः सम्भ्रान्तचेतसः। तत् पिबस्व महादेव लोकानां हितकाम्यया । भवानग्र्यस्य भोक्ता वै भवांश्वैव वरः प्रभुः ।। ५४.
त्वामृतेऽन्यो महादेव विषं सोढुं न विद्यते । नास्ति कश्चित् पुमान् शक्तस्त्रैलोक्येषु च गीयते ।। ५४.
एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः। बाढमित्येव तद्वाक्यं प्रतिगृह्य वरानने ।। ५४.
ततोऽहं पातुमारब्धो विषमन्तकसन्निभम्। पिबतो मे महाघोरं विषं सुरभयङ्करम्। कण्ठः समभवत्तूर्णं कृष्णो मे वरवर्णिनि ।। ५४.
तंदृष्ट्वो त्पलपत्राभं कण्ठे सक्तमिवोरगम् । तक्षकं नागराजानं लेलिहानमिव स्थितम् ।। ५४.
अथोवाच महातेजा ब्रह्मा लोकपितामहः। शोभसे त्वं महादेव कण्ठेनानेन सुव्रत ।। ५४.
ततस्तस्य वचः श्रुत्वा मया गिरिवरात्मजे। पश्यतां देवसङ्गानां दैत्यानाञ्च वरानने ।। ५४.
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम्। धृतं कण्ठे विषं घोरं नीलकण्टस्ततो ह्यहम् ।। ५४.
तत् कालकूटं विषमुग्रतेजः कण्ठे मया पर्वतराजपुत्रि। निवेश्यमानं सुरदैत्यसङ्घो दृष्ट्वा परं विस्मयमाजगाम ।। ५४.
ततः सुरगणाः सर्वे सदैत्योरगराक्षसाः। ऊचुः प्राञ्चलयो भूत्वा मत्तमातङ्गगामिनि ।। ५४.
अहो बलं वीर्यपराक्रमस्ते अहो पुनर्योगबलं तवैव। अहो प्रभुत्वं तव देवदेव गङ्गाजलास्फालितमुक्तकेश ।। ५४.
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्यु र्वरदस्त्वमेव। त्वमेव सूर्यो रजनीकरश्च त्वमेव भूमिः सलिलं त्वमेव ।। ५४.
त्वमेव यज्ञो नियमस्त्वमेव त्वमेव भूतं भविता त्वमेव। त्वमेव चादि र्निधनं त्वमेव स्थूलश्च सूक्ष्मः पुरुषस्त्वमेव ।। ५४.
त्वमेव सूक्ष्मस्य परस्य सूक्ष्मस्त्वमेव वह्निः पवनस्त्वमेव। त्वमेव सर्वस्य चराचरस्य लोकस्य कर्त्ता प्रलये च गोप्ता ।। ५४.
इतीदमुक्त्वा वचनं सुरेन्द्राः प्रगृह्य सोमं प्रणिपत्य मूर्द्ना। गता विमानैरनिगृह्य वेगैर्महात्मनो मेरुमुपेत्य सर्वे ।। ५४.
इत्येतत्परमं गुह्यं पुण्यात्पुण्यमहत्तरम्। नीलकण्ठेति यत् प्रोक्तं विख्यातं लोकविश्रुतम् ।। ५४.
स्वयं स्वयम्भुवा प्रोक्तां पुण्यां पापप्रणाशनीम्। यस्तु धारयते नित्यमेनां ब्रह्मोद्भवां कथाम्। तस्याहं संप्रवक्ष्यामि फलं वै विपुलं महत् ।। ५४.
विषं तस्य वरारोहे स्थावरं जङ्गमन्तथा। गात्रं प्राप्य च सुश्रोणि क्षिप्रं तत् प्रतिहन्यते ।। ५४.
शमयत्यशुभं घोरं दुःस्वप्नञ्चापकर्षति। स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ।। ५४.
विवादे जयमाप्नोति युद्धे शूरत्वमेव च। गच्छतः क्षेममध्वानं गृहे च नित्यसम्पदः ।। ५४.
शरीरभेदे वक्ष्यामि गतिं तस्य वरानने। नीलकण्ठो हरिच्छमश्रुः शशाङ्काङ्कितमूर्द्धजः ।। ५४.
त्र्यक्षस्त्रिशूलपाणिश्च वृषयानः पिनाकधृक्। नन्धितुल्यबलः श्रीमान् नन्दितुल्यपराक्रमः ।। ५४.