तं दृष्ट्वा सुरसङ्घाश्च दैत्याश्चैव वरानने। विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तिकम् ।। ५४.
दृष्ट्वा सुरगणान् भीतान् ब्रह्मो वाच महाद्युतिः। किमर्थं भो महाभागा भीता उद्विग्नचेतसः ।। ५४.
मयाष्टगुणमैश्वर्यं भवतां सम्प्रकल्पितम्। केन व्यावर्त्तितैश्वर्या यूयं वै सुरसत्तमाः ।। ५४.
त्रैलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः। प्रजासर्गे न सोऽस्तीह आज्ञां यो मे निवर्त्तयेत् ।। ५४.
विमानगामिनः सर्वे सर्वे स्वच्छन्दगामिनः। अध्यात्मे चाधिभूते च अधिदैवे च नित्यशः। प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् ।। ५४.
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव। किं दुःखं केन सन्तापः कुलो वा भयमागतम्। एतत्सर्वं यथान्यायं शीग्रमाख्यातुमर्हथ ।। ५४.
श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणो वै महात्मनः। ऊचुस्ते ऋषिभिः सार्ध्धं सुरदैत्येन्द्रदानवाः ।। ५४.
सुरासुरैर्मथ्यमाने पाथोधौ च महात्मभिः। भुजङ्गभृङ्गसङ्काशं नीलजीमूतसन्निभम्। प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् ।। ५४.
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्। त्रैलोक्योत्सादि सूर्याभं प्रस्फुरन्तं समन्ततः ।। ५४.
विषेणोत्तिष्ठमानेन कालानलसमत्विषा। निर्दग्धो रक्तगौराङ्गः कृतकृष्णो जनार्दनः ।। ५४.
दृष्ट्वा तं रक्तगौराङ्गं कृतकृष्णं जनार्दनम्। भीताः सर्वे वयं देवास्त्वामेव शरणं गताः ।। ५४.
सुराणामसुराणाञ्च श्रुत्वा वाक्यं पितामहः। प्रत्युवाच महातेजा लोकानां हितकाम्यया ।। ५४.
श्रृणुध्वं देवताः सर्वे ऋषयश्च तपोधनाः। यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ ।। ५४.
विषं कालानलप्रख्यं कालकूटेति विश्रुतम्। येन प्रोद्भूतमात्रेण कृतकृष्णो जनार्दनः ।। ५४.
तस्य विष्णुरहञ्चापि सर्वे ते सुरपुङ्गवाः। न शक्नुवन्ति वै सोढुं वेगमन्ये तु शङ्करात् ।। ५४.
इत्युक्त्वा पझगर्भाभः पझयोनिरयोनिजः । ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ।। ५४.
नमस्तुभ्यं विरूपाक्ष नमस्तेऽनेकचक्षुषे। नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ।। ५४.
नमस्त्रैलोक्यनाथाय भूतानाम्पतये नमः। नमः सुरारिसंहर्त्रे तापसाय त्रिचक्षुषे ।। ५४.
ब्रहमणे चैव रुद्राय विष्णवे चैव ते नमः। साङ्ख्याय चैव योगाय भूतग्रामाय वै नमः ।। ५४.
मन्मताङ्गविनाशाय कालकालाय वै नमः। रुद्राय च सुरेशाय देवदेवाय ते नमः। ५४.
कपर्दिने करालाय शङ्कराय कपालिने। विरूपायैकरूपाय शिवाय वरदाय च ।। ५४.
त्रिपुरघ्नाय वन्द्याय मातॄणाम्पतये नमः। बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च ।। ५४.
नमः कमलहस्ताय दिग्वासाय शिखण्डिने । लोक त्रयवलिधात्रे च चन्द्राय वरुणाय च ।। ५४.
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे। रजसे चैव सत्त्वाय तमसेऽव्यक्तयोनये ।। ५४.
नित्यायानित्यरूपाय नित्यानित्याय वै नमः। व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः ।। ५४.
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः। भक्तानामार्तिनाशाय नरनारायणाय च ।। ५४.
उमाप्रियाय शर्वाय नन्दिचक्राङ्किताय च। पक्षमासार्द्धमासाय नमः संवत्सराय च ।। ५४.
बहुरूपाय मुण्डाय दण्डिनेऽथ वरूथिने। नमः कपालहस्ताय दिग्वासाय शिखणिडने ।। ५४.
ध्वजिने रथिने चैव यमिने ब्रह्मचारिणे। ऋग्यजुः सामवेदाय पुरुषायेश्वराय च। इत्येवमादिचरितैस्तुभ्यं देव नमोऽस्तु ते ।। ५४.
एवं स्तुतस्ततो देवैः प्रणिपत्य वरानने ।। ५४.