प्रपच्छ कार्तिकेयं वै मयूरवरवाहनम्। महिषासुरनारीणां नयनाञ्जनतस्करम् ।। ५४.
महासेनं महात्मानं मेघस्तनितनिःस्वनम्। उमामनःप्रहर्षेण बालकं छझरूपिणम् ।। ५४.
क्रौञ्चजीवितहर्त्तारं पार्वतीहृदि नन्दनम्। वसिष्ठः पृच्छते भक्त्या कार्तिकेयं महाबलम् ।। ५४.
नमस्ते हरनन्दाय उमागर्भ नमो ऽस्तु ते। नमस्ते अग्निगर्भाय गङ्गागर्भ नमोऽस्तु ते ।। ५४.
नमस्ते शरगर्भाय नमस्ते कृत्तिकासुत। नमो द्वादशनेत्राय षण्मुखाय नमोऽस्तु ते ।। ५४.
नमस्ते शक्तिहस्ताय दिव्यघण्टापताकिने। एवं स्तुत्वा महासेनं पप्रच्छ शिखिवाहनम् ।। ५४.
यदेतद्दृश्यते वर्णं शुभं शुभ्राञ्जनप्रभम्। तत्किमर्थं समुत्पन्नं कण्ठे कुन्देन्दुसंप्रभे ।। ५४.
एतदाप्ताय भक्ताय दान्ताय ब्रूहि पृच्छते। कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् । मत्प्रियार्थं महाभाग वक्तुमर्हस्यशेषतः ।। ५४.
श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः। प्रत्युवाच महातेजाः सुरारिबलसूदनः ।। ५४.
श्रृणुष्व वदतां श्रेष्ठ कथ्यमानं वचो मम। उमोत्सङ्गनिविष्टेन मया पूर्वं यथाश्रुतम् ।। ५४.
पार्वत्या सह संवादः शर्वस्य च महात्मनः। तदहङ्कीर्त्तयिष्यामि त्वत्प्रियार्थं महामुने ।। ५४.
कैलासशिखरे रम्ये नानाधातुविचित्रिते। नानाद्रुमलताकीर्णे चक्रवाकोपशोभिते ।। ५४.
षट्पदोद्गीतबहुले धारासम्पातनादिते। मत्तक्रौञ्चमयूराणां नादैरुद्घुष्टकन्दरे ।। ५४.
अप्सरोगणसङ्कीर्णे किन्नरैश्चोपशोभिते । जीवञ्जीवकजातीनां वीरुद्भिरुपशोभिते ।। ५४.
कोकिलारावमधुरे सिद्ध चारणसेविते। सौरभैयीनिनादाढ्ये अधस्तनितनिःस्वने ।। ५४.
विनायकभयोद्विग्ने कुञ्जरैर्युक्तकन्दरे। वीणावादित्रनिर्घोषैः श्रोत्रेन्द्रियमनोरमैः ।। ५४.
दोलालम्बितसम्पाते वनितासङ्घसेविते। ध्वजैर्लम्बितदोलानां घण्ठानां निनदाकुले ।। ५४.
मुखमर्दलवादित्रैर्बलिनां स्फोटितैस्तथा। क्रीडारवविचाराणां निर्घोषैः पूर्णमन्दिरे ।। ५४.
हासैः सन्त्रासजननैर्विकरालमुखैस्तथा। देहगन्धैर्विचित्रैश्च प्रक्रीडितगणेश्चरैः ।। ५४.
वज्रस्फटिकसोपान चित्रपट्टिशिलातलैः। व्याध्रसिंहमुखैशचवान्यैर्गजवाजिमुखैस्तथा ।। ५४.
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारमूर्तिभिः । ह्रस्वैर्दीर्घैः कृशैः स्थूलैर्लम्बोदर महोदरैः ।। ५४.
ह्रस्वजङ्घैश्च लम्बोष्ठैस्तालजङ्घैस्तथापरैः। गौकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः ।। ५४.
बहुपादैर्महापादैरेकपादैरपादकैः। बहुशीर्षैर्महाशीर्षैरेकशीर्षैरशीर्षकैः ।। ५४.
बहुनेत्रैर्महानेत्रैरेकनैत्रैरनैत्रकैः । एवंविधैर्महायोगिभूतैर्भूतपतिर्वृतः ।। ५४.
विशुद्धमुक्तामणिरत्नभूषिते शिलातले हेममये मनोरमे। सुखोपविष्टं मदनाङ्गनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ।। ५४.
भगवन् भूतभव्येश गोवृषाङ्कितशासन। तव कण्ठे महादेव भ्राजतेऽम्बुदशन्निभम् ।। ५४.
नात्युल्बणं नातिशुब्रं नीलाञ्जनचयोपमम्। किमिदं दीप्यते देव कण्ठे कामाङ्ग नाशन ।। ५४.
को हेतुः कारणं किञ्च कण्ठे नीलत्वमीश्वरः । एतत्सर्वं यथान्यायं ब्रूहि कौतूहलं हिमे ।। ५४.
श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पार्वतीप्रियः । कथां मङ्गलसंयुक्तां कथयामास शङ्करः ।। ५४.
मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः। अग्रे समुत्थितं तस्मिन् विषं कालानलप्रभम् ।। ५४.