सर्वग्रहाणामेतेषामादिरादित्य उच्यते। ताराग्रहाणां शुक्रस्तु केतूनाञ्चैव धूमवान् ।। ५३.
ध्रुवः कालो ग्रहाणां तु विभक्तानां चतुर्दिशम् । नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ।। ५३.
वर्षाणाञ्चापि पञ्चानामाद्यः संवत्सरः स्मृतः। ऋतूनां शिशिरञ्चापि मासानां माघ एव च ।। ५३.
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा। अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ।। ५३.
मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः। अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ।। ५३.
श्रवणान्तं श्रविष्ठादियुगं स्यात् पञ्चवार्षिकम्। भानोर्गतिविशेषेण चक्रवत् परिवर्त्तते ।। ५३.
दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम्। चतुर्वनिधानां भूतानां प्रवर्त्तकनिवर्त्तकः ।। ५३.
इत्येष ज्योतिषामेव सन्निवेशोऽर्थनिश्चयात्। लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ।। ५३.
उत्पन्नः श्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा। सर्वतोऽन्तेषु विस्तीर्णो वृक्षाकार इति स्थितिः ।। ५३.
बुद्धिपूर्वम्भगवता कल्पादौ संप्रकीर्तितः। साश्रयः सोऽभिमानी च सर्वस्य ज्योतिरात्मकः। विश्वरूपः प्रधानस्य परिणामोऽयमद्भुतः ।। ५३.
नैव शक्यं प्रसंख्यातुं याथातथ्येन केनचित्। गतागतं मनुष्येषु ज्योतिषां मांसचक्षुषा ।। ५३.
आगमादनुमानाच्च प्रत्यक्षादुपपत्तितः। परीक्ष्य निपुणं भक्त्या श्रद्धातव्यं विपश्चिता ।। ५३.
चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिसत्तमाः। पञ्चैते हेतवो ज्ञेया ज्योतिर्गणविचिन्तने ।। ५३.
कस्मिन् देशे महापुण्यमेतदाख्यानमुत्तमम्। वृत्तं ब्रह्मपुरोगाणां कस्मिन् काले महाद्युते। एतदाख्याहि नः सम्यग् यथा वृत्तं तपोधन ।। ५४.
यथा श्रुतं मया पूर्वं वायुना जगदायुना। कथ्यमानं द्विजश्रेष्ठाः सत्रे वर्षसहस्रके ।। ५४.
नीलता येन कण्ठस्य देवदेवस्य शूलिनः। तदहं कीर्त्तयिष्यामि श्रृणुध्वं शंसितव्रताः ।। ५४.
उत्तरे शैलराजस्य सरांसि सरितो ह्रदाः। पुण्योद्यानेषु तीर्थेषु देवतायतनेषु च। गिरिश्रृङ्गेषु तुङ्गेषु गह्वरोपवनेषु च ।। ५४.
देवभक्ता महात्मानो मुनयः शंसितव्रताः। स्तुवन्ति च महादेवं यत्र यथाविधि ।। ५४.
ऋग्यजुःसामवेदैश्च नृत्यगीतार्च्चनादिभिः। ओङ्कारेण नमस्कारैरर्च्चयन्ति सदा शिवम् ।। ५४.
प्रवृत्ते ज्योतिषां चक्रे मध्यव्याप्ते दिवाकरे। देवता नियतात्मानः सर्वे तिष्ठन्ति तां कथाम् । अथ नियमप्रवृत्ताश्च प्राणशेषव्यवस्थिताः ।। ५४.
नमस्ते नीलकण्ठाय इत्युवाच सदागतिः। तच्छुत्वा भावितात्मानो मुनयः शंशितव्रताः। वालखिल्येति विख्याताः पतङ्गसहचारिणः ।। ५४.
अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्। तस्मात् पृच्छन्ति वै वायुं वायुपर्णाम्बुभोजनाः ।। ५४.
नीलकण्ठेति यत् प्रोक्तं त्वया पवनसत्तम। एतद्दुह्यं पवित्राणां पुण्यं पुण्यकृतां वराः ।। ५४.
तद्वयं श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन। नीलता येन कण्ठस्य कारणेनाम्बिकापतेः ।। ५४.
श्रोतुमिच्छा महे सम्यक् तव वक्राद्विशेषतः। यावद्वाचः प्रवर्त्तन्ते सार्थास्ताश्च त्वयेरिताः ।। ५४.
वर्णस्थानगते वायौ वाग्विधिः संप्रवर्तते। ज्ञानं पूर्वमथोत्साह स्त्वत्तो वायो प्रवर्तते ।। ५४.१३ . त्वयि निष्पन्दमाने तु शेषा वर्णप्रवृत्तयः। यत्र वाचो निवर्तन्ते देहबन्धाश्च दुर्लभाः ।। ५४.
तत्रापि तेऽस्ति सद्भावः सर्वगस्त्वं सदानिल। नान्यः सर्वगतो देवस्त्वदृतेश़स्ति समीरण ।। ५४.
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल। वेत्थ वाचस्पतिं देवं मनोनायकमीस्वरम् ।। ५४.
ब्रूहि तत्कण्ठदेशस्य किं कृता रूपविक्रिया। श्रुत्वा वाक्यन्ततस्तेषामृषीणां भावितात्मानाम्। प्रत्युवाच महातेजा वायुर्लोक नमस्कृतः ।। ५४.
पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः। वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतेः ।। ५४.