भूमिलेखावृतः सूर्यः पूर्णामावास्ययोस्तथा। नदृश्यते यथाकालं शाघ्रतोऽस्तमुपैति च ।। ५३.
तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः। दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ।। ५३.
ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ। समानकालास्तमयौ विषुवत्सु समोदयौ ।। ५३.
उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ। पूर्णामावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्त्तिनौ ।। ५३.
दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्। तदा सर्वग्रहाणां स सूर्योऽधस्तात् प्रसर्पति ।। ५३.
विस्तीर्णं मण्डलं कृत्वा तस्योर्द्ध्वञ्चरते शशी। नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्वं प्रसर्पति ।। ५३.
नक्षत्रेभ्यो बुधश्वोर्द्ध्वं बुधादूर्द्ध्वं बृहस्पतिः। तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् । ऋषीणाञ्चैव सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः ।। ५३.
द्विगुणेषु सहस्रेषु योजनानां शतेषु च। ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ।। ५३.
ग्रहाश्च चन्द्रसूर्यौ तु दिवि दिव्येन तेजसा। नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ।। ५३.
ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः। समागमे च भेदे च पश्यन्ति युगपत् प्रजाः ।। ५३.
परस्परस्थिताः ह्येते युज्यन्ते च परस्परम्। असङ्करेण विज्ञेयस्तेषां योगस्तु वै बुधैः ।। ५३.
इत्येष सन्निवेशो वः पृथिव्यां ज्यौतिषस्य च। द्वीपानामुद्नधीनां च पर्वतानां तथैव च ।। ५३.
वर्षाणां च नदीनाञ्च येषु तेषु वसन्ति वै। एते चैव ग्रहाः पूर्वं नक्षत्रेषु समुत्थिताः ।। ५३.
विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेऽन्तरे। विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ।। ५३.
त्विषिमान् धर्म्मपुत्रस्तु सोमो विश्वावसुस्तथा। शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ।। ५३.
षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम्। ताराग्रहाणां प्रवरस्तिष्यक्षेत्रे समुत्थितः ।। ५३.
ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्च्चिर्बृहस्पतिः। फाल्गुनीषु समुत्पन्नः सर्वासु च जगद्गुरुः ।। ५३.
नवार्चिर्लोहिताङ्गस्तु प्रजापतिसुतो ग्रहः । आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः ।। ५३.
रेवतीष्वेव सप्तार्चि स्तथा सौरशनैश्चरः। रोहिणीषु समुत्पन्नौ ग्रहौ चन्द्रार्कमर्द्दनौ ।। ५३.
एते ताराग्रहाश्चैव बोद्धव्या भार्गवादय। जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः। स्पृशन्ते तेन दोषेण ततस्ता ग्रहभक्तिषु ।। ५३.
सर्वग्रहाणामेतेषामादिरादित्य उच्यते। ताराग्रहाणां शुक्रस्तु केतूनाञ्चैव धूमवान् ।। ५३.
ध्रुवः कालो ग्रहाणां तु विभक्तानां चतुर्दिशम् । नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ।। ५३.
वर्षाणाञ्चापि पञ्चानामाद्यः संवत्सरः स्मृतः। ऋतूनां शिशिरञ्चापि मासानां माघ एव च ।। ५३.
पक्षाणां शुक्लपक्षस्तु तिथीनां प्रतिपत्तथा। अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ।। ५३.
मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः। अक्ष्णोश्चापि निमेषादिः कालः कालविदो मतः ।। ५३.
श्रवणान्तं श्रविष्ठादियुगं स्यात् पञ्चवार्षिकम्। भानोर्गतिविशेषेण चक्रवत् परिवर्त्तते ।। ५३.
दिवाकरः स्मृतस्तस्मात्कालस्तं विद्धि चेश्वरम्। चतुर्वनिधानां भूतानां प्रवर्त्तकनिवर्त्तकः ।। ५३.
इत्येष ज्योतिषामेव सन्निवेशोऽर्थनिश्चयात्। लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ।। ५३.
उत्पन्नः श्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा। सर्वतोऽन्तेषु विस्तीर्णो वृक्षाकार इति स्थितिः ।। ५३.
बुद्धिपूर्वम्भगवता कल्पादौ संप्रकीर्तितः। साश्रयः सोऽभिमानी च सर्वस्य ज्योतिरात्मकः। विश्वरूपः प्रधानस्य परिणामोऽयमद्भुतः ।। ५३.