शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा। बलिनः शक्तिनश्चैव स्मृतास्त्वाकुलिका गजाः ॥ ८.
पुष्पदन्तो बृहत्सामा षड्दन्तो दन्त पुष्पवान्। ताम्रवर्णश्च तत्पुत्रः सहचारिविषाणितः ॥ ८.
अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः। श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ ८.
वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः। भार्या चैवाङ्गदा तस्य नीलवल्लक्षणौ सुतौ ॥ ८.
चण्डश्चात्रशिरो ग्रीवा व्यूढोरस्कास्तरस्विनः। नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ ८.
सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः । तस्य प्रहारी सम्पाती पृथुश्चित्तिसुतास्त्रयः ॥ ८.
पशवो दीर्घताल्वौष्ठाः सुविभक्तशिरोदराः। जायन्ते मृदुसम्भूता वंशे तस्य मतङ्गजाः ॥ ८.
अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जनावती। एवं माता तयोश्चापि प्रथितायुरजःसुतौ ॥ ८.
महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः। सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः। शूनाः पीतायतमुखा गजास्तस्यान्वयेऽभवन् ॥ ८.
जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुदद्युतिः। पिङ्गलायाः सुतौ तस्या महापद्मोर्मिमालिनौ ॥ ८.
समायवरदांश्चण्डान् प्रवृद्धबलिनोदरान् । हस्तियुद्धे प्रियान्नागान् विद्धि तस्य कुलोद्भवान् ॥ ८.
एतान् देवासुरे युद्धे जयार्थे जगृहुः सुराः। कृतार्थैश्च विसृष्टास्तैः पूर्वोक्ताः प्रययुर्दिशः ॥ ८.
एतेषामन्वये जातान् विनीतांस्त्रिदशा ददुः । अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ॥ ८.
द्विरदो द्विरदाभ्याञ्च हस्ताद्धस्ती करात्करी। वरणाद्वारणो दन्ती दन्ताभ्यां गर्जनाद्गजः ॥ ८.
कुञ्जरः कुञ्जचारित्वान्नागो नगविरोधतः । मतङ्गादिति मातङ्गो द्विपो द्वाभ्यामपि स्मृतः। सामजः सामजातत्वादिति निर्वचनक्रमः ॥ ८.
एषां जिह्वापरावृत्तिरिवाक्तं ह्यग्निशापजम्। बलस्यानवतो या तु या चैषां गूढमुष्कता। उभयं दन्तिनामेतत्स्वयम्भूसूरशापजम् ॥ ८.
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। कन्यासु जाता दिङ्नागैर्नानासात्त्वास्ततो गजाः ॥ ८.
सम्भूतिश्च प्रभूतिश्च नामनिर्वचनं तथा। एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥ ८.
कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम्। अञ्जनस्यैकमूलस्य प्राच्यान्नागवनन्तु तत् ॥ ८.
उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणञ्च यत्। गङ्गोद्भेदात्करूषेभ्यः सुप्रतीकस्य तद्वनम् ॥ ८.
अपरेणोत्कलाच्चैव ह्यावेदिभ्यश्च पञ्चमम्। एकभूतात्मनोस्यैतद्वामनस्य वनं स्मृतम् ॥ ८.
अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु। यमस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ॥ ८.
भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान् प्रभोः। स्थूलान् कृशांश्च दीर्घांश्च वामनान् ह्रस्वकान् समान् ॥ ८.
लम्बकर्णान् प्रलम्बोष्ठान् लम्बजिह्वास्तनोदरान्। एकरूपान् द्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥ ८.
सरोवरसमुद्रादिनदीपुलिनवासिनः। कृष्णान् गौरांश्च नीलांश्च श्वेतांश्च लोहितारुणान् ॥ ८.
बभ्रून् वै शबलान् धूम्रान् कद्रून् रासभदारूणान्। मुञ्जकेशान् हृषीकेशान् सर्पयजोपवीतिनः ॥ ८.
विसृष्टाक्षान् विरूपाक्षान् कृशाक्षानेकलोचनान्। बहुशीर्षान् विशीर्षांश्च एकशीर्षांश्च शीर्षकान् ॥ ८.
चण्डांश्च विकटांश्चैव विरोमान् रोमशांस्तथा। अन्धांस्व जटिलांश्चैव कुञ्जान् हेषकवामनान् ॥ ८.
सरोवरसमुद्रादिनदीपुलिनसेविनः। एककर्णान् महाकर्णान् शङ्कुकर्णानकर्णिकान् ॥ ८.
दंष्ट्रिणो नखिनश्चैव निर्द्दन्तांश्च द्विजिह्वकान्। एकहस्तान् द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥ ८.