उपरिष्टात्रयस्तेषां ग्रहा ये दूरसर्पिणः। सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ।। ५३.
तेभ्योऽधस्तात्तु चत्वारः पुनरन्ये महाग्रहाः। सूर्यः सोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ।। ५३.
यावन्त्य स्तारकाः कोट्यस्तावदृक्षाणि सर्वशः। वीथीनां नियमाच्चैवमृक्षमार्गो व्यवस्थितः ।। ५३.
गतिस्तास्त्वेव सूर्यस्य नीचोच्चत्वेऽयनक्रमात्। उत्तरायण मार्गस्थो यदा पर्वसु चन्द्रमाः। बौधं बौधोऽथ स्वर्भानुः स्वर्भानोः स्थानमास्थितः ।। ५३.
नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत। गृहाण्ये तानि सर्वाणि ज्योतींषि सुकृतात्मनाम् ।। ५३.
कल्पादौ संप्रवृत्तानि निर्मितानि स्वयम्भुवा। स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् ।। ५३.
मन्वन्तरेषु सर्वेषु देवतायतनानि वै। अभिमानिनोऽवतिष्टन्ति यावदाभूतसंप्लवम् ।। ५३.
अतीतैस्तु सहातीता भाव्याभाव्यैः सुरासुरैः । वर्त्तन्ते वर्त्तमानैश्च स्थानानि स्वैः सुरैः सह ।। ५३.
अस्मिन् मन्वन्तरे चैव ग्रहा वैमानिकाः स्मृताः। विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे ।। ५३.
त्विषिमान्धर्मपुत्रस्तु सोमदेवो वसुः स्मृतः। शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरराजकः ।। ५३.
बृहत्तेजाः स्मृतो देवो देवाचार्योऽङ्गिरःसुतः। बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः ।। ५३.
अग्निर्विकल्पात् संजज्ञे युवाऽसौ लोहिताधिपः। नक्षत्रऋक्षगामिन्यो दाक्षायण्यः स्मृतास्तु ताः ।। ५३.
स्वर्भानुः सिंहिकापुत्रो भूतसन्तापनोऽसुरः। सोमर्क्षग्रहसूर्ये तु कीर्तितास्त्वभिमानिनः ।। ५३.
स्थानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः। शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ।। ५३.
सहस्रांशोस्त्विषः स्थानमम्मयं शुक्लमेव च। अथ श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ।। ५३.
शुक्रस्याप्यम्मयं स्थानं सद्म षोडशरश्मिवत्। नवरश्मेस्तु यूनो हि लोहितस्थानमम्मयम् ।। ५३.
हरिश्चाप्यं बृहच्चापि द्वादशांशोर्बृहस्पतेः। अष्ट रश्मेर्गृहं प्रोक्तं कृष्णं बुद्धस्य अम्मयम् ।। ५३.
स्वर्भानोस्तामसं स्थानं भूतसन्तापनालयम्। विज्ञेयास्तारकाः सर्वास्त्वम्मयास्त्वेकरश्मयः ।। ५३.
आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चैव वर्णतः। घनतोयात्मिका ज्ञेयाः कल्पादौ वेदनिर्मिताः ।। ५३.
उच्चत्वाद्दृश्यते शीघ्रमभिव्यक्तैर्गभस्तिभिः। तथा दक्षिणमार्गस्थो नीविवीथीसमाक्षितः ।। ५३.
भूमिलेखावृतः सूर्यः पूर्णामावास्ययोस्तथा। नदृश्यते यथाकालं शाघ्रतोऽस्तमुपैति च ।। ५३.
तस्मादुत्तरमार्गस्थो ह्यमावास्यां निशाकरः। दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ।। ५३.
ज्योतिषां गतियोगेन सूर्याचन्द्रमसावुभौ। समानकालास्तमयौ विषुवत्सु समोदयौ ।। ५३.
उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ। पूर्णामावास्ययोर्ज्ञेयौ ज्योतिश्चक्रानुवर्त्तिनौ ।। ५३.
दक्षिणायनमार्गस्थो यदा भवति रश्मिवान्। तदा सर्वग्रहाणां स सूर्योऽधस्तात् प्रसर्पति ।। ५३.
विस्तीर्णं मण्डलं कृत्वा तस्योर्द्ध्वञ्चरते शशी। नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्वं प्रसर्पति ।। ५३.
नक्षत्रेभ्यो बुधश्वोर्द्ध्वं बुधादूर्द्ध्वं बृहस्पतिः। तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् । ऋषीणाञ्चैव सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः ।। ५३.
द्विगुणेषु सहस्रेषु योजनानां शतेषु च। ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ।। ५३.
ग्रहाश्च चन्द्रसूर्यौ तु दिवि दिव्येन तेजसा। नित्यमृक्षेषु युज्यन्ति गच्छन्ति नियमक्रमात् ।। ५३.
ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृद्ववस्थिताः। समागमे च भेदे च पश्यन्ति युगपत् प्रजाः ।। ५३.