अभावो व्यवहाराणां देवानां दिवि चेह च। जगत्प्रतापनमृते भास्करं वारितस्करम् ।। ५३.
स एव कालश्चाग्निश्च द्वादशात्मा प्रजापतिः। तपत्येष द्विजश्रेष्टास्त्रैलोक्यं सचराचरम् ।। ५३.
स एष तेजसां राशिः समस्तः सार्वलौकिकः। उत्तमं मार्गमास्थाय वायोभाभिरिदञ्जगत्। पार्श्वमूर्द्ध्वमधश्चैव तापयत्येष सर्वशः ।। ५३.
रवेरश्मिसहस्रं यत् प्राङ्मया समुदाहृतम् । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ।। ५३.
सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च। विश्वश्रवाः पुनश्चान्यः संयद्वसुरतः परम् । अर्वावसुः पुनश्चान्यो मया चात्र प्रकीर्त्तितः ।। ५३.
सुषुम्नः सूर्यरश्मिस्तु क्षीणं शशिनमेधयन्। तिर्यगूर्द्ध्वप्रभावोऽसौ सुषुम्नः परिकीर्त्यते ।। ५३.
हरिकेशः पुरस्त्वाद्या ऋक्षयोनिः प्रकीर्त्यते। दक्षिणे विश्वकर्मा तु रश्मिर्वर्द्धयते बुधम् ।। ५३.
विश्वश्रवास्तु यः पश्चात् शुक्रयोनिः स्मृतो बुधैः। संयद्वसुश्च यो रश्मिः सा योनिर्लोहितस्य च ।। ५३.
षष्ठस्त्वर्वावसू रश्मिर्योनिस्तु स बृहस्पतेः। शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट् ।। ५३.
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः। वर्द्धन्ते विदिताः सर्वा विश्वञ्चैदं पुनर्जगत् । नक्षीयन्ते पुनस्तानि तस्मान्नक्षत्रता स्मृता ।। ५३.
क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः। तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रताङ्गतः ।। ५३.
तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् । ताराणां तारका ह्येताः शुक्लत्वाच्चैव तारकाः ।। ५३.
दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्वशः । आदानान्नित्यमादित्यस्तमसां तेजसां महान् ।। ५३.
सुवति स्पन्दनार्थे च धातुरेष विभाव्यते। सवनात्तेजसोऽपाञ्च तेनासौ सविता मतः ।। ५३.
बह्वर्थश्चन्द्र इत्येष ह्लादने धातुरिष्यते । शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ।। ५३.
सुर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे। ज्वलत्तेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ।। ५३.
घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम्। घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ।। ५३.
विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः। मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ।। ५३.
तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च। सौरं सूर्यो विशस्थानं सौम्यं सोमस्तथैव च ।। ५३.
शौक्रं शुक्रो विशस्थानं षोडशार्च्चिः प्रतापवान्। बृहद्बृहस्पतिश्चैव लोहितश्चैव लौहितः । शानैश्चरं तथा स्थानं देव श्चैव शनैश्चरः ।। ५३.
आदित्यरश्मिसंयोगात् संप्रकाशात्मिकाः स्मृताः । नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः ।। ५३.
त्रिगुणस्तस्य विस्तारो मण्डलञ्च प्रमाणतः। द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ।। ५३.
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति। उद्धृत्य पार्थिवच्छायां निर्मितो मण्डलाकृतिः ।। ५३.
स्वर्भानोस्तु बृहत् स्थानन्निर्मितं यत्तमोमयम्। आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ।। ५३.
आदित्यमेति सोमाच्च पुनः सोमञ्च पर्वसु। स्वर्भासानुदते यस्मात्ततः स्वर्भानुरुच्यते ।। ५३.
चन्द्रस्य षोडशो भागो भार्गवश्च निधीयते। विष्कम्भान्मण्डलाच्चैव योजनाग्रात् प्रमाणतः ।। ५३.
भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः। बुहस्पतेः पादहीनौ कुजसौरावुभौ स्मृतौ । विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ।। ५३.
तारानक्षत्ररूपाणि स्वपुष्मन्तीह यानि वै। बुधेन समतुल्यानि विस्तारान्मण्डलादथ ।। ५३.
प्रायशश्चन्द्रयोगानि विद्यादृक्षाणि तत्त्ववित्। तारानक्षत्ररूपाणि हीनानि तु परस्परम् ।। ५३.
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने। पूर्वापरनिकृष्टानि तारकामण्डलानि तु। योजनान्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ।। ५३.